________________
ושיוו
उत्तराध्ययन
सूत्रम् ८७२
sill Ill
रथनेमीयनाम
द्वाविंशमध्ययनम्
III
llell lel
यात्रामहोत्सवे सिद्धा-यतने सोऽन्यदा ययौ । परेऽपि मिमिलुस्तत्र, भूयांसः खेचराधिपाः ।।८६।। रत्नवत्या समं तत्रा-ऽनङ्गसिंहोऽप्युपागमत् । तत्र चित्रगतिभक्तया, जिनानभ्यर्च्य तुष्टुवे ।। ८७।। मित्रं द्रष्टुं सुमित्रोऽपि, सुरस्तत्रागतस्तदा । चित्रां चित्रगतेनि, पुष्पवृष्टिं व्यधान्मुदा ।। ८८।। विवेदानङ्गसिंहोऽपि, तमेव दुहितुः पतिम् । प्रत्यक्षीभूय देवोऽपि, किं मां वेत्सीत्युवाच तम् ।। ८९।। देवो महर्द्धिस्त्वमिति, प्रोक्ते सूरभुवा सुरः । प्रत्यभिज्ञाकृते पूर्व-भवरूपमदर्शयत् ।। ९० ।। ततो मुदा चित्रगति-रित्युचे परिरभ्य तम् । महाभाग ! मया धर्मो, लेभेऽसौ त्वत्प्रसादतः ।। ९१।। देवोऽवादीदियं लक्ष्मी-स्तदा मे जीवितार्पणात् । त्वयाऽदायि न चेत्तत्र, मृत्यो देवगतिः क्व मे ? ।। ९२।। उपकारमिति प्राच्यं, वदन्तौ वीक्ष्य तौ मिथ: । सूरचक्रीप्रभृतयः, सर्वेऽमोदन्त खेचराः ।। ९३।। चित्रो नेत्राध्वना रत्न-वत्याश्चित्तेऽविशत्तदा । तत्स्पर्द्धयेव कामोऽपि, तत्रैव विदधे पदम् ।।९४ ।। लज्जांशुकमपाकृत्य, साथ कामग्रहाकुला । भावमाविश्चकार स्वं, चेष्टितैर्विविधैर्दुतम् ।।१५।। तां च कामातुरां वीक्ष्या-ऽनङ्गसिंहो व्यचिन्तयत् । ममासिमिव जहेऽसौ, मनोऽप्यस्या महामनाः ! ।। ९६ ।। ददे तदेनामत्रैव, कालक्षेपेण किं मुधा ? । धर्मस्थानेऽथवा कार्य-मिदं नार्हति धीमताम् ! ।।९७।। ध्यात्वेति स्वगृहं सोऽगा-द्विसृज्याथ सुहृत्सुरम् । पित्रा समं चित्रगति-रपि स्वसदनं ययौ ।। ९८।।
1ell
Isl Rell lel Poll
llol
||sil
lel
li6ll leil
llolli
॥6॥ Ioll
sil Moll
ell Ill
liell
Jel
८७२
lall |sil
||Gl
lel lei
ell
min Education International
For Personal & Private Use Only
www.jainelibrary.org