SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ८६७ FTTTTTTTTTS ॥७॥ ప్రా తాతా తాతా ర व्यधत्तानशनं प्रान्ते, धनो धनवतीयुतः । विपद्य तौ च सौधर्मे ऽभूतां शक्रसमौ सुरौ ।। २३ ।। “इतश्च" - भरतेऽत्रैव वैताढ्यो-त्तरश्रेणिशिरोमणौ । सूरतेजःपुरे सूर-नामा खेचरचक्रयभूत् ।। २४ ।। तस्य विद्युन्मती विद्यु-मेघस्येवाजनि प्रिया । धनजीवश्युतः स्वर्गात्तस्याः कुक्षाववातरत् ।। २५ ।। पूर्णेऽथ समयेऽसूत, सुतं सा पुण्यलक्षणम् । पिता तस्योत्सवैश्चित्र गतिरित्यभिधां व्यधात् ।। २६ ।। वर्द्धमानः क्रमान्न्यासी - कृता इव गुरोः कलाः । स गृहीत्वाऽखिलाः प्राप, यौवनं रूपपावनम् ।। २७ ।। अथ तत्रैव वैताढ्ये पाच्य श्रेणिस्थितेऽभवत् । भूमाननङ्गसिंहाख्यो, नगरे शिवमन्दिरे ।। २८ ।। शशिप्रभा प्रभगुणा, तस्य राज्ञी शशिप्रभा । दिवो धनवतीजीव- श्युत्वा तत्कुक्षिमागमत् ।। २९ । । क्रमाचाजीजनत्पुत्री, पुण्यरूपां शशिप्रभा । पिता रत्नवतीत्याख्यां, तस्याश्चक्रे महोत्सवैः ।। ३० ।। क्रमेण वर्द्धमाना सा, स्वीकृत्य सकलाः कलाः । प्रपेदे यौवनं वर्य-चातुर्यामृतसागरम् ।। ३१ ।। कः स्यादस्याः पतिरिति पृष्टः पित्राऽन्यदा मुदा । ज्ञानी कोऽपि जगौ यस्ते हर्त्ता दिव्यमसिं करात् ।। ३२ ।। यस्योर्ध्वं नित्यचैत्ये च पुष्पवृष्टिर्भविष्यति । कनीरत्नमिदं मर्त्य-रत्नं स परिणेष्यति ।। ३३ ।। (युग्मम्) आच्छेत्ता खङ्गरनं यो, ममापि स महाबलः । जामाता भवितेत्य-न्तर्मुमुदे भूपतिस्ततः ।। ३४ ।। १. सदृक् । Jain Education International For Personal & Private Use Only ASSSSSSSSSSSSSSSSSSSSSSAAAAAALATS रथनेमीयनाम द्वाविंश मध्ययनम् ८६७ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy