________________
Isl
||ol
el
Ifoll
उत्तराध्ययन- ||61
सूत्रम् ८६५
||
I6I
तस्स भज्जा सिवा नाम, तीसे पुत्ते महायसे । भयवं अरिद्वनेमित्ति, लोगनाहे दमीसरे ।। ४ ।।
| रथनेमीयनाम
ion द्वाविंशव्याख्या – 'दमीसरेत्ति' दमिनामीश्वरो दमीश्वरः, कौमार एव मारविजयादिति सूत्रचतुष्कार्थः । शेषं प्रतीतमेवमग्रेऽपि ज्ञेयम् ।। ४ ।। अत्रा
||ol मध्ययनम् II प्रसङ्गागतं श्रीनेमीश्वरचरितं किञ्चिदुच्यते, तथा हि -
अत्रैव भरतक्षेत्रे, पुरेऽचलपुरेऽभवत् । निस्सीमविक्रमधनः, श्रीविक्रमधनो नृपः ।।१।। सधर्मचारिणी तस्य, धारिणीसज्ञिकाऽभवत् । तयोश्चाभूत्सुतश्चुत-स्वप्नाख्यातो धनाभिधः ।।२।। कलाकलापमासाद्य, स प्राप्तो यौवनं क्रमात् । रूपेणाप्रतिरूपेण, विजिग्ये निर्जरानपि ।।३।। सिंहस्य राज्ञः कुसुम-पुराधीशस्य नन्दनाम् । रूपाधरीकृतरति, रतिदा दर्शनादपि ।। ४ ।। पट्टालिखिततद्रूपं, वीक्ष्यात्यन्तानुरागिणीम् । धन: कनीं धनवती-मुपयेमेऽन्यदा मुदा ।।५।। (युग्मम्) श्रिया विष्णुरिव प्रेम्णा, रममाणस्तया समम् । ग्रीष्ममध्यन्दिनेन्येद्यु-र्वनोद्देशं जगाम सः ।।६।।
तत्र चैकं तृषा शुष्य-द्रसनाधरतालुकम् । धर्मश्रमातिरेकेण, मूर्छितं पतितं क्षितौ ।।७।। Mall तपः कृशाङ्गमकृशं, गुणैः शान्तरसोदधिम् । मुनि ददृशतुर्मार्ग-भ्रष्टं धनवतीधनौ ।।८।। (युग्मम्)
ततस्तो दम्पती साधू, तमुपेत्य ससम्भ्रमौ । शीतलेरुपचारैर्दाग, व्यधत्तां प्राप्तचेतनम् ।।९।।
llel
||
lel
||
lifal
Hell Mell Isll
Eco
For Personal Private Use Only