________________
उत्तराध्ययन
सूत्रम्
८६०
भीषणा भयभैरवाः तत्रेति व्रतप्रतिपत्तौ उद्यन्ति उदयं यान्ति भीमा रौद्राः, अस्य च पुनः कथनमतिरौद्रत्वख्यापकं, दिव्या मानुष्यका अथवा तैरश्चा समुद्रपालीय॥७॥ उपसर्गाः इति शेषः ।। १६ ।। तथा
॥६॥ नाम
॥ एकविंश
मध्ययनम्
परीसहा दुव्विसहा अणेगे, सीदंति जत्था बहुकायरा नरा ।
से तत्थ पत्ते न वहिज्ज भिक्खू, संगामसीसे इव नागराया ।। १७ ।।
व्याख्या - परीषहा दुर्विषहा दुस्सहा अनेके उद्यन्तीति योगः, सीदन्ति संयमं प्रति शिथिलीभवन्ति ' जत्था' इति यत्र येषूपसर्गेषु परीषहेषु च सत्सु बहु भृशं कातराः नराः, 'से' इत्यथ तत्र तेषु प्राप्तो न व्यथेत न सत्वाञ्चलेद्भवान् भिक्षुः सन् सङ्ग्रामशीर्ष इव नागराजः ।। १७ । ।
सीतोसिणा दंसमसाय फासा, आयंका विविहा फुसंति देहं ।
अकुक्कुओ तत्थऽहियासएज्जा, रयाइं खेवेज्ज पुरेकडाई ।। १८ ।।
व्याख्या - शीतोष्णदंशमशकाः, च-शब्द उत्तरत्र योक्ष्यते, स्पर्शास्तृणस्पर्शादयः, आतङ्काश्चविविधाः स्पृशन्ति उपतापयन्ति देहं भवत इति गम्यं । 'अकुक्कुओत्ति' कुत्सितं कूजति कुकूजो न तथा अकुकूजस्तत्र शीतादिस्पर्शनेऽधिसहेत, अनेन चानन्तरसूत्रोक्त एवार्थः ॥ स्पष्टतार्थमन्वयेनोक्तः । ईदृशश्च सन् रजांसि जीवमालिन्यहेतुतया कर्माणि 'खेवेज्जत्ति' क्षिपेत् पुराकृतानि ।। १८ ।।
Jain Education interational
॥७॥
For Personal & Private Use Only
GODDE
८६०
www.jainelibrary.org