________________
उत्तराध्ययन
४८
“अथ परीषहनाम द्वितीयमध्ययनम्"
। परिषहनाम । अर्हम् ।। व्याख्यातं प्रथमाध्ययनमथ द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः, इह पूर्वाध्ययने विनय उक्तः, स च स्वस्थावस्थैः
द्वितीयपरीषहातैश्च विधेय एव, अथ के नामते परीषहाः ? इति जिज्ञासायां तत्स्वरूपावेदकमिदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्य !
मध्ययनम् ॥ परीषहाध्ययनस्येदमादिसूत्रम् - MS सुअं मे आउसं तेणं भगवया एवमक्खायं, इह खलु बावीसं परीसहा, समणेणं भगवया महावीरेणं कासवेणं पवेइआ, जे का I भिक्खू सोचा णञ्चा जिञ्चा अभिभूय भिक्खायरिआ परिव्ययंतो पुट्ठो ण विहणेज्जा ।।
व्याख्या - श्रुतमाकणितं मे मया आयुष्मन्निति शिष्यामन्त्रणं, इदञ्च सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह, तेन जगत्त्रयप्रतीतेन M भगवताऽष्टमहाप्रातिहार्यादिसमग्रेश्वर्ययुक्तेन एवममुना वक्ष्यमाणप्रकारेण आख्यातं कथितं, किमाख्यातमित्याह, 'इह खलुत्ति' अत्र खलुशब्दस्य ll I एवकारार्थत्वात् इहैव जिनप्रवचने एव, न तु शाक्यादिशासने, द्वाविंशतिः परीषहाः सन्तीति गम्यते, यदिवा 'आउसंतेणंति' मया इत्यस्य विशेषणं । Mal कार्य, ततश्च आवसता आगमोक्तमर्यादया वसता गुरुकुलवासे इति शेषः, अनेन च यावजीवं गुरुकुलवास एव सर्वथा वस्तव्यमित्याह, उक्तञ्च
"णाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ । धण्णा आवकहा जे, गुरुकुलवासं ण मुंचंति ।।१।।" अथ यद्भगवता द्वाविंशतिः परीषहाः
सन्तीत्याख्यातं तत्किमन्यतोऽवगम्य स्वतो वेति शिष्यसंशयं निराकर्तुमाह, श्रमणेन तपस्विना भगवता महावीरेण श्रीवर्द्धमानस्वामिना काश्यपेन का I काश्यपगोत्रेण 'पवेइअत्ति' सूत्रत्वात् प्रविदिताः प्रकर्षेण उत्पन्नकेवलज्ञानतया स्वयं साक्षात्कारित्वलक्षणेन विदिता ज्ञाता: नत्वन्योपदेशेनेति का
11
For Personal Pre
se Only
llelmjaneibrary.org