________________
उत्तराध्ययन
सूत्रम्
८५१
l कुत्सितशीलास्तद्रूपास्तत्स्वभावाः, मार्ग विराध्य जिनोत्तमानां । कुररीव पक्षिणीव भोगरसानुगृद्धा निरर्थः शोको यस्याः सा निरर्थशोका परितापं ॥ महानिर्ग्रन्थीपश्चात्तापमेति प्राप्नोति । यथा साऽऽमिषगृद्धा मुखात्तपिशितपेशिका परपक्षिभ्यो विपत्प्राप्तौ शोचति, न च ततः कोऽपि विपत्प्रतिकार इति,
विंशतितमला एवमयमपि भोगरसगृद्ध ऐहिकामुष्मिकापायप्राप्तौ । ततोऽस्य स्वान्यत्राणाक्षमत्वादनाथत्वमेवेति भाव इति सूत्रत्रयोदशकार्थः ।।५०।। इदं च ।
मध्ययनम् ॥ श्रुत्वा यत्कार्यं तदाह -
सोञ्चाण मेहावि सुभासिअं इमं, अणुसासण नाणगुणाववेअं ।।
मग्गं कुसीलाण जहाय सव्वं, महानिठाण वए पहेणं ।।५१।। व्याख्या - श्रुत्वा हे मेधाविन् ! सुष्टु भाषितं इदमनन्तरोक्तं अनुशासनं शिक्षणं ज्ञानेन गुणेन च प्रस्तावाद्विरतिरूपेणोपपेतं ज्ञानगुणोपपेतं, is मार्ग कुशीलानां हित्वा सर्व, महानिर्ग्रन्थानां 'वएत्ति' व्रजेस्त्वं 'पहेणंति' पथा ।।५१।। तत: किं फलमित्याह -
चरित्तमायारगुणनिए तओ, अणुत्तरं संजम पालिआणं ।
निरासवे संखविआण कम्मं, उवेइ ठाणं विउलुत्तमं धुवं ।।५२।। व्याख्या - 'चरित्तमायरत्ति' मकारोऽलाक्षणिकः, चारित्राचारश्चारित्रासेवनं, गुण इह ज्ञानरूपस्ताभ्यामन्वितश्चारित्राचारगुणान्वितः । ततो
८५१ Insill
liell
For Personal Private Use Only