SearchBrowseAboutContactDonate
Page Preview
Page 887
Loading...
Download File
Download File
Page Text
________________ || उत्तराध्ययन सूत्रम् ८४५ ||ll Itall Ifoll अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य । अप्पा मित्तममित्तं च, दुप्पट्ठिअ सुपट्ठिओ ।।३७।। Is महानिर्ग्रन्थीव्याख्या - आत्मैव कर्ता दुःखानां सुखानां चेति योगः, विकरिता च विक्षेपक आत्मैव तेषां, अत एवात्मैव मित्रममित्रश्च, कीदृशः सन् ? II यनाम विंशतितमMe दुःप्रस्थितो दुराचारः, सुप्रस्थितः सदनुष्ठानः । दुःप्रस्थितो ह्यात्मा समग्रदुःखहेतुरिति वैतरण्यादिरूपः, सुप्रस्थितश्च सकलसुखहेतुरिति । मध्ययनम् ॥ कामधेन्वादिकल्पः । तथा च प्रव्रज्यायामेव सुप्रस्थितत्वात् स्वस्यान्येषां च योगक्षेमकरणक्षमत्वात् मम नाथत्वमिति सूत्रद्वयार्थः ।। ३७।। पुनरन्यथाऽनाथत्वमाह - इमा हु अन्नावि अणाहया निवा !, तमेगचित्तो निहुओ सुणाहि । निअंठधम्म लहिआण वी जहा, सीदंति एगे बहु कायरा नरा ।। ३८।। ||al व्याख्या - 'इमत्ति' इयं, हुः पूर्ता, अन्या अपरा, अपि: समुञ्चये, अनाथता, यदभावादहं नाथो जात इति भावः । 'णिवत्ति' हेनृप ! is तामनाथतामेकचित्तो निभृतो स्थिरः शृणु । का पुनरसो ? इत्याह-निर्ग्रन्थधर्मं साध्वाचारं लब्ध्वाऽपि, यथेत्युपदर्शने, सीदन्ति तदनुष्ठानं प्रति, शिथिलीभवन्ति । एके केचन, बहु प्रकामं, यथास्यात्तथा, कातरा निस्सत्वा नरा मनुष्याः । यद्वा बहुकातरा इषनिःसत्वाः, सर्वथा निःसत्वानां ॥ [ हि निर्ग्रन्थमार्गाङ्गीकार एव मूलतोऽपि न स्यादित्येवमुक्तं । सीदन्तश्च ते नात्मानमन्यांश्च रक्षितुं क्षमा इतीयं सीदनलक्षणाऽपराऽनाथतेति ॥ MS भावः ।।३८।। तामेव दर्शयति - Ish ||७| lish llsil ||sl Isil JainEducation For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy