________________
उत्तराध्ययन
सूत्रम् ८४४
एवं च चिंतइत्ता णं, पसुत्तोमि नराहिवा ! । परिअत्तंतीए राईए, वेअणा मे खयं गया ।।३३।।
|| महानिर्ग्रन्थीव्याख्या - न केवलमुक्त्वा, किन्तु एवं चिन्तयित्वा च, प्रसुप्तोऽस्मि नराधिप ! परिवर्त्तमानायामतिक्रामन्त्यां रात्रौ वेदना मे क्षयं गता ।।३३।।
icon यनाम तओ कल्ले पभायंमि, आपुच्छित्ता ण बंधवे । खंतो दंतो निरारंभो, पव्वइओ अणगारियं ।।३४।।
विंशतितम
ISI मध्ययनम् व्याख्या - ततो वेदनापगमनानन्तरं 'कल्लेत्ति' कल्यो निरोग: सन् ।।३४।।
isi तओहं नाहो जाओ, अप्पणो अ परस्स य । सव्वेसिं चेव भूआणं, तसाणं थावराण य ।।३५ ।।
व्याख्या - ततः प्रव्रज्याङ्गीकारात् अहं नाथो योगक्षेमकृज्जातः, आत्मनः परस्य च । तत्रालब्धलाभो योगः, स स्वस्य रत्नत्रयलाभेन, लब्धस्य च रक्षणं क्षेमः, स तु स्वस्य प्रमादपरित्यागेन । एवमन्येषामपि धर्मदानस्थैर्यविधानाभ्यां योगक्षेमकारित्वं भाव्यमिति विंशतिसूत्रार्थः ।।३५ ।। कुतो - दीक्षादानादनु त्वं नाथो जातो न पूर्वमित्याह -
अप्पा नई वेअरणी, अप्पा मे कूडसामली । अप्या कामदुहा घेणू, अप्पा मे नंदणं वणं ।।३६।। 181
व्याख्या - आत्मेति वाक्यस्य सावधारणत्वादात्मैव नदी वैतरणी, नरकसम्बन्धिनी । आत्मन एवोद्धतस्य तद्धेतुत्वात् । अत एवात्मैव मे, | कूटमिव जन्तुयातनाहेतुत्वाच्छाल्मली कूटशाल्मली, तथा आत्मैव कामदुधा धेनुरिव धेनुः, इयं च रूढित उक्ता, एतदौपम्यं च तस्य Mel I स्वर्गापवर्गादिसमीहितावाप्तिहेतुत्वात् । आत्मैव मे नन्दनं वनं, एतदौपम्यं चास्यैव चित्ताहादहेतुत्वात् ।। ३६।।
८४४
lol |lel IGll
inin Education
For Personal & P
Use Only
lifall www.jainelibrary.org