________________
उत्तराध्ययनसूत्रम्
८४१
सुणेहि मे महाराय !, अव्वक्खित्तेण चेअसा । जहा अणाहो भवति, जहा मे अ पवत्तिअं ।। १७ ।।
व्याख्या - शृणु मे कथयत इति शेषः, किं तदित्याह यथा अनाथो अनाथशब्दवाच्यः पुरुषो भवति, यथा 'मे अत्ति' मया च प्रवर्त्तितं प्ररूपितं अनाथत्वमिति प्रक्रमः, अनेनोत्थानमुक्तम् ।। १७ । ।
कोसंबी नाम नयरी, पुराणपुरभेअणी । तत्थ आसी पिआ मज्झं, पभूअधणसंचओ ।। १८ ।।
व्याख्या - पुराणपुराणि भिनत्ति स्वगुणैरसमानत्वात्स्वतो भेदेन व्यवस्थापयतीति पुराणपुरभेदिनी ।। १८ ।।
पढमे वये महाराय !, अउला मे अच्छिवेअणा । अहोत्था विउलो दाहो, सव्वगत्तेसु पत्थिवा ! ।। १९ ।।
व्याख्या - प्रथमे वयसीह यौवने अतुला मे अक्षिवेदना 'अहोत्थत्ति' अभूत् ।। १९ । ।
सत्यं जहा परमतिक्खं, सरीरविवरंतरे । आवीलिज्ज अरी कुद्धो, एव मे अच्छिवेअणा ।। २० ।।
व्याख्या 'शरीरेत्यादि' शरीरविवराणि कर्णघ्राणादीनि तेषामन्तरं मध्यं शरीरविवरान्तरं तस्मिन् आपीडयेत् समन्तादवगाहयेत् ।। २० ।। तिअं मे अंतरिच्छं च, उत्तिमंगं च पीडई । इंदासणीसमा घोरा, वेअणा परमदारुणा ।। २१ । । व्याख्या - त्रिकं कटिप्रदेशं मे, अन्तरा मध्ये इच्छां चाभिमतवस्त्वभिलाषं न केवलं बहिस्त्रिकाद्येवेति भावः, पीडयति बाधते वेदनेति सम्बन्धः, इन्द्राशनिरिन्द्रवज्रं तत्समातिदाहोत्पादकत्वादिति भावः । घोराऽन्येषामपि भयजनिका परमदारुणाऽतीवदुः खोत्पादिका ।। २१ । ।
Jain Education International
For Personal & Private Use Only
महानिर्ग्रन्थी
यनाम
॥७॥ विंशतितम
मध्ययनम्
రె రా రావా.
loll
८४१
www.jainelibrary.org