________________
उत्तराध्ययनसूत्रम् ८३८
TAFTTTTTTTTTES
S SO I U T S S S టై టె టైర్
तस्स रूवं तु पासित्ता, राइणो तंमि संजए । अनंतं परमो आसि, अउलो रूवविम्हओ ।। ५॥ व्याख्या – 'अनंतं परमोत्ति' अतिशयप्रधानः, अतुलोऽतिमहान्, रूपविषयो विस्मयो रूपविस्मयः । । ५ । । तमेव दर्शयति - अहो वण्णो अहो रूवं, अहो अज्जस्स सोमया । अहो खंती अहो मुत्ती, अहो भोगे असंगया ! || ६ || व्याख्या - अहो ! आश्चर्ये वर्णो गौरत्वादिः, रूपमाकारः, आर्यस्य मुनेः, सौम्यता चन्द्रस्येव द्रष्टुरानन्ददायिता, असङ्गता निःस्पृहता || ६ || तस्स पाए उ वंदित्ता, काऊण य पयाहिणं । नाइदूरमणासन्ने, पंजली पडिपुच्छइ ।। ७ ।।
व्याख्या - अत्र पादवन्दनानन्तरं प्रदक्षिणाभिधानं पूज्यानामालोक एव प्रणामः कार्यः इति ख्यापनार्थ, 'नाइदूरमणासनेत्ति' नातिदूरं न चासत्रे प्रदेशे स्थित इति शेषः ।।७।।
॥७॥
तरुणोऽसि अज्जो पव्वइओ, भोगकालंमि संजया । उवट्ठिओऽसि सामण्णे, एअमट्ठे सुणामि ता ।। ८ ।।
व्याख्या - तरुणोऽसि आर्य ! अत एव भोगकाले प्रव्रजित इत्युच्यसे, उपस्थितश्च सर्वादरेण कृतोद्यमश्चासि श्रामण्ये, एतमर्थ निमित्तं येनार्थेन त्वमस्यामप्यवस्थायां प्रव्रजितः शृणोमि 'ताइति' तावत् पूर्वं पश्चात्तु यत्त्वं भणिष्यसि तदपि श्रोष्यामीति भावः । इति सूत्रसप्तकावयवार्थ:, शेषं तु सुगमत्वात् न व्याख्यातमेवमग्रेऽपि ज्ञेयम् ।। ८ ।। इत्थं राज्ञोक्ते मुनिराह -
Jain Education International
॥७॥ महानिर्ग्रन्थी
यनाम
॥७॥ विंशतितममध्ययनम्
For Personal & Private Use Only
८३८
lewww.jainelibrary.org