________________
oll
ला
||ll
Iroll lifoll
16ll
llell
ell
उत्तराध्ययन- ।। अथ महानिर्ग्रन्थीयनाम विंशतितममध्ययनम् ।।
II महानिर्ग्रन्थी
6ll सूत्रम्
यनाम ।। अहम् ।। उक्तमेकोनविंशमध्ययनमथ महानिर्ग्रन्थीयाख्यं विंशतितमं प्रस्तूयते, अस्य चायमभिसम्बन्धोऽनन्तराध्ययने नि:प्रतिकर्मतोक्ता, IS ८३७ in सा चानाथत्वभावनेनैव पालयितुं शक्येत्यनाथत्वमेवानेनाऽनेकविधमुच्यते । इत्यनेनसम्बन्धेनायातस्यास्येदमादिसूत्रम् -
Is विंशतितमसिद्धाण नमोकिञ्चा, संजयाणं च भावओ । अत्थधम्मगई तचं, अणुसिद्धिं सुणेह मे ।।१।।
मध्ययनम् व्याख्या - सिद्धेभ्यस्तीर्थकरादिसिद्धेभ्यो नमस्कृत्य, संयतेभ्यश्चाचार्योपाध्यायसाधुभ्यो भावतो भक्तया । अोहितार्थिभिः प्रार्थ्य: स चासो ॥ धर्मश्चार्थ्यधर्मस्तस्य गतिर्ज्ञानं यस्याः सा अर्थ्यधर्मगतिस्तां, 'तझंति' तथ्यामविपरीतार्थां, अनुशिष्टिं शिक्षां शृणुत, मे मया कथ्यमानामिति शेषः ।। का स्थविरवचनमेतदिति सूत्रार्थः ।।१।। अथ धर्मकथानुयोगत्वादस्य धर्मकथाकथनद्वारा शिक्षामाह - S ||61 पभुअरयणो राया, सेणिओ मगहाहिवो । विहारजत्तं निजाओ, मंडिकुच्छिसि चेइए ।।२।। ||61
व्याख्या - प्रभूतानि रत्नानि वैडूर्यादीनि सारगजाश्वादिरूपाणि वा यस्य स तथा, 'विहारजतंति' विहारयात्रया | क्रीडार्थमश्ववाहनिकादिरूपया निर्यातो निर्गतो नगराद्गतश्च मण्डितकुक्षिनाम्नि चैत्ये उद्याने ।। २।। तदुद्यानं कीदृशमित्याह -
नाणादुमलयाइण्णं, नाणापक्खिनिसेविअं । नाणाकुसुमसंछन्नं, उजाणं नंदणोवमं ।।३।। तत्थ सो पासई साहुं, संजयं सुसमाहिअं । निसन्नं रुक्खमूलंमि, सुकुमालं सुहोइअं ।।४।। व्याख्या - साधुः सर्वोऽपि शिष्ट उच्यते, तत: संयतमित्युक्तं । सोऽपि बहिःसंयमवानिह्नवादिरपि स्यादिति सुसमाहितमित्युक्तम् ।।३।।४।।
८३७ ||
lal
IGll
Ilsil 16
Nell Jain Education milai
For Personal & Private Use Only
Itall www.jainelibrary.org