________________
उत्तराध्ययन
सूत्रम् ८३०
तं बिंतऽम्मापिअरो, छंदेणं पुत्त ! पव्वया । नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया ।।७५।।
मृगापुत्रीयनाम व्याख्या – 'छंदेणंति' छन्दसाऽभिप्रायेण यथारुचीत्यर्थः, पुत्र ! प्रव्रज, नवरं केवलं, पुनर्विशेषणे, दुःखं दुःखहेतुनि:प्रतिकर्मता रोगाद्युत्पत्ती
fol एकोनविंशIrel प्रतिकाराकरणमिति सूत्रार्थः ।।७५ ।। इत्थं पितृभ्यामुक्ते मृगापुत्रः स्माह -
मध्ययनम् सो बिंतऽम्मापिअरो!, एवमेअं जहा फुडं । पडिकम्मं को कुणइ, अरण्णे मिअपक्खिणं ? ।।७६।।
व्याख्या - स ब्रूते हे अम्बापितरौ ! एवमेतनिःप्रतिकर्मताया यदुःखरूपत्वमुक्तं यथा स्फुटं सत्यं, परं परिभाव्यतामिदं, परिकर्म चिकित्सा M&l कः करोत्यरण्ये मृगपक्षिणां ? तेऽपि च जीवन्ति विचरन्ति च, ततः किमस्या दुःखरूपत्वमिति भावः ।।७६।। ततश्च -
एगभूओ अरण्णे वा, जहा उ चरई मिगो । एवं धम्मं चरिस्सामि, संजमेण तवेण य ।।७७।।
व्याख्या - एकभूत एकत्वम्प्राप्त: 'अरण्णेवत्ति' अरण्येऽटव्यां, वा पूरणे, 'जहा उत्ति' यथैव चरति मृगः, एवं धर्मं चरिष्यामि संयमेन तपसा च हेतुभूतेन ।।७७।।
जया मिअस्स आयंको, महारण्णंमि जायई । अच्छंतं रुक्खमूलंमि, कोणं ताहे तिगिच्छई ? ।।७८।।
व्याख्या - 'अच्छंतं' तिष्ठन्तं वृक्षमूले, 'कोणंति' क एनं 'ताहेत्ति' तदा चिकित्सति, औषधाधुपदेशेन नीरोगं करोति ? न l l कश्चिदित्यर्थः । अन्यत्र हि कदाचित्कोऽपि दृष्ट्वा चिकित्सेदपीति महारण्ये इत्युक्तम् ।।७८।।
८३०
INST
el
Isl
Ioll
llll cation in
Juin E
national
For Personal Private Use Only