________________
उत्तराध्ययन
सूत्रम्
८२३
SFFF
जहा इहं अगणी उण्हो, एत्तोऽणंतगुणा तहिं । नरएसु वेअणा उण्हा, अस्साया वेइआ मए ।। ४७ ।। व्याख्या - यथा इह मनुष्यलोकेऽग्रिरुष्ण इतोऽस्मादग्रेरनन्तगुणाः 'तहिं ' तेषु नरकेषु येष्वहमुत्पन्न इति भावः, तत्र च बादराग्नेरभावात् पृथिव्या एव तथाविधः स्पर्श इति ज्ञेयं । ताश्च वेदना उष्णानुभवात्मकत्वेन असाता दुःखरूपाः ।। ४७ ।।
जहा इहं इमं सीअं, एत्तोऽणंतगुणा तहिं । नरएसु वेअणा सीआ, अस्साया वेइआ मए ।। ४८ ।। व्याख्या - यथेदमनुभूयमानं माघमासादिसम्भवमिह शीतम् ।। ४८ ।।
कंदतो कंदुकुंभी, उड्डपाओ अहोसिरो । हुआसिणे जलंतम्मि, पक्कपुव्वो अनंतसो ।। ४९ ।। व्याख्या - क्रन्दन् कन्दुकुम्भीषु लोहादिमयीषु पाकभाजनविशेषरूपासु हुताशने देवमायाकृते ।। ४९ ।। महादवग्गिसंकासे, मरुम्मि वइरवालए । कलंबवालुआए अ, दढपुव्वो अनंतसो ।। ५० ।।
व्याख्या - महादवाग्निसङ्काशे, अत्रान्यस्य तादृग्दाहकतरस्याभावादेवमुपमा प्रोक्ता, अन्यथा त्विहत्यारनन्तगुण एव तत्रोष्णः पृथिव्यनुभाव इति 'मरुंमित्ति' तास्थ्यात्तद्व्यपदेशसम्भवादन्तर्भूतोपमार्थत्वाच मरौ मरुवालुकानिकरकल्पे, 'वइरवालुएत्ति' वज्रवालुकानदीपुलिने, कदम्बवालुकायां कदम्बवालुकानदीपुलिने च ।। ५० ।।
Jain Education Indional
For Personal & Private Use Only
॥७॥ ||७||
मृगापुत्रीयनाम
॥७॥ एकोनविंशमध्ययनम्
८२३
www.jainelibrary.org