________________
उत्तराध्ययनसूत्रम्
८१४
DOOOOOOTS
जाईसरणे समुप्पण्णे, मिआपुत्ते महिड्डिए । सरइ पोराणिअं जाई, सामण्णं च पुराकडं । । ८ ।। व्याख्या – 'पोराणिअंति' पौराणिकीं प्राक्तनीं जातिं जन्मेति सूत्रचतुष्कार्थः, ।। ८ ।। ततोऽसौ यच्चक्रे तदाह - विसएस अरज्जतो, रज्जतो संजमंमि अ । अम्मापिअरं उवागम्म, इमं वयणमब्बवी ।। ९ ।। व्याख्या - विषयेष्वरज्यन् रागमकुर्वन्, रज्यन् संयमे, चः पुनरर्थे, अम्बापितरौ उपागम्येदं वचनमब्रवीत् ।। ९ । । यदब्रवीत्तद्दर्शयतिआणि मे पंच महव्वयाणि, नरएसु दुक्खं च तिरिक्खजोणिसु ।
निविणकामोम्हि महण्णवाओ, अणुजाणह पव्वइस्सामि अम्मो ! ।। १० । ।
व्याख्या - श्रुतानि प्राग्भवे इति शेषः, मे मया पञ्च महाव्रतानि, तथा नरकेषु दुःखं, तिर्यग्योनिषु च उपलक्षणत्वाद्देवमनुष्ययोश्च यद्दुःखं तदपि श्रुतं । ततः किमित्याह-निर्विण्णकामो निवृत्ताभिलाषोऽस्मि अहं, कुतो ? महार्णव इव महार्णवः संसारस्तस्मात्, यतश्चैवमतोऽनुजानी || माम्, प्रव्रजिष्यामि सकलदुःखापनोदाय व्रतं ग्रहीष्यामि, 'अम्मोत्ति' मातुरामन्त्रणम् ।। १० ।। अथ कदाचित्पितरी भोगैर्निमन्त्रयत इति ॥ तन्निषेधार्थमाह
अम्मताय ! मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुअविवागा, अणुबंधदुहावहा ! ।। ११ ।।
व्याख्या
- 'विसफलोवमत्ति' विषमिति विषवृक्षस्तत्फलोपमाः तदुपमत्वं भावयति पश्चात् परिभोगानन्तरं कटुकविपाकाः, अनुबन्धदुःखावहा निरन्तरदुःखदायिनः ।। ११ । । किञ्च -
Jain Education inteMtional
For Personal & Private Use Only
मृगापुत्रीयनाम एकोनविंश
मध्ययनम्
చా చా చా చా రా
||७||
८१४
www.jainelibrary.org