SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ४३ SATTTTTE शिरःस्था अपि यद्ययं जगत्पूज्यपदाम्बुजाः । नास्माकं न विनेयानां, चामीषां भारकारिणः ।। १९ । । इदानीं तन्न कर्तव्यः, पूज्यैः संलेखनाग्रहः । श्रुत्वेतीङ्गितवित्सूरि-रिति चेतस्यचिन्तयत् ।। २० ।। नूनमस्मद्विनेयानां, सर्वमेतद्विजृम्भितम् । तदमीभिः कृतं प्राणै-रेषां निर्वेदहेतुभिः ।। २१ । । धर्मार्थिना हि नान्येषां, पीडोत्पाद्या कदाचन । ध्यात्वेति सूरयः प्रोचुः, समतामृतवार्द्धयः ।। २२ ।। वैयावृत्यं कारयद्भिः, सदास्माभिरजङ्गमैः । यूयमेते विनेयाश्च खेदनीयाः कियचिरम् ।। २३ ।। तदुत्तमार्थमेवाथ, प्रतिपद्यामहे वयम् । इति सम्बोध्य तान् भक्तं, प्रत्याख्यान्तिस्म सूरयः ।। २४ ।। गुरुः प्रपाल्यानशनं जगाम, त्रिविष्टपं निष्ठितपापकर्मा । शिष्यास्तु ते प्रापुरिहापवादं परत्र दुःखं च गुरूपघातात् ।। २५।। इति गुरूपघाति कुशिष्यकथा । तदेवं बुद्धोपघाती न स्यात् । तथा 'न सिआ तोत्तगवेसएत्ति' तुद्यते व्यथ्यतेऽनेनेति तोत्रं, द्रव्यतः प्राजनको भावतस्तु दोषोद्भावकं वचनमेव, तद्गवेषयति, किमहमेषां जात्यादिदूषणं वच्मीति अन्वेषयतीति तोत्रगवेषको न स्यादिति सूत्रार्थः ।। ४० ।। तदेवमाचार्यं न कोपयेदित्युक्तं कथञ्चित्कुपिते पुनः किं कार्यमित्याह - आयरिअं कुविअं णचा, पत्तिएण पसायए । विज्झविज्ज पंजलीउडो, वइज्ज ण पुणत्ति अ ।। ४१ ।। व्याख्या - आचार्यमुपलक्षणत्वादुपाध्यायादिकं वा कुपितं अशिक्षणादृष्टिदानादिना प्रादुष्कृतकोपं ज्ञात्वा 'पत्तिएणत्ति' प्रतीति- जनकेन शपथादिना, यद्वा प्रीत्या साम्नेव प्रियवचोभाषणादिकेन प्रसादयेत् प्रसन्नं कुर्यात्, कथमित्याह lle Jain Education International For Personal & Private Use Only - ATTOOTATO చాలా ఛాలెట్ 'विज्झविज्जत्ति' विध्यापयेत् ॥७॥ ॥७॥ विनयनाम प्रथम मध्ययनम् ४३ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy