________________
उत्तराध्ययनसूत्रम्
८०७
DOTTTTE
Bell Jain Education International
तन्न जानामि कः पूर्वं पश्चाद्वा प्रेत्य यास्यति । तदद्यैवानुजानीत, प्रव्रज्याग्रहणाय माम् ।। २० ।। देव्यूचे तव कायोऽयं, रम्योऽभिनवयौवनः । भुक्त्वा तदङ्ग ! सौख्यानि गृह्णीया वार्द्धके व्रतम् ।। २१ ।। कुमार: स्माह रोगाढ्ये ऽशुचिपूर्णे मलाविले । कारागार इवाऽसारे, कायेऽस्मिन् किं सुखं नृणाम् ? ।। २२ ।। किञ्च सत्यङ्गसामर्थ्ये, व्रतं युक्तं न वार्द्धके । वार्द्धके ह्यक्षमतनोः, स्याद्विनाऽपि मनो व्रतम् ! ।। २३ ।। प्रभावत्यभ्यधादाभिः समग्रगुणधामभिः । भोगान्सहाष्टभिः स्त्रीभिर्भुङ्क्ष्व किं साम्प्रतं व्रतम् ? ।। २४।। महाबलोऽब्रवीत्क्लेश-साध्यैर्बालिशसेवितैः । दुःखानुबन्धिभिर्भोगैः, किं मे विषफलोपमैः ? ।। २५ ।। किञ्च मोक्षप्रदं मर्त्य-जन्मभोगकृते कृती । वराटिकाकृते रत्न - मिव को हारयत्यहो ! ।। २६ ।। अम्बाऽवादीदिदं जात !, द्रव्यजातं क्रमागतम् । स्वैरं विलस पुण्यद्रोः फलं ह्येतदुपस्थितम् ! ।। २७ ।। अभ्यधाद्धूपभूर्मात-गोत्रिचोराग्निराजसात् । क्षणाद्भवति यद्वित्तं, प्रलोभयसि तेन किम् ? ।। २८ ।। किञ्च प्रेत्य सहाऽऽयाति, यो धर्मोऽनन्तशर्मदः । धनं तद्विपरीतं तत्समतामश्रुवीत किम् ? ।। २९ ।। राज्ञी जगौ वह्निशिखा - पानवद्दुष्करं व्रतम् । कुमार ! सुकुमारस्त्वं, कथङ्कारं करिष्यसि ? ।। ३० ।। उवाच नृपभूः स्मित्वा, मातः ! किमिदमुच्यते ? । नराणां कातराणां हि व्रतं भवति दुष्करम् ! ।। ३१ ।। पालयन्ति प्रतिज्ञां स्वां, वीराः प्राणव्ययेऽपि ये । परलोकार्थिनां तेषां न हि तद्दुष्करं परम् ! ।। ३२ ।।
For Personal & Private Use Only
TATAFFFFF
॥७॥ संयतीयनाम
अष्टादशमध्ययनम्
SSSSS
८०७
www.jainelibrary.org