________________
ला
Iroll
उत्तराध्ययन
सूत्रम् ८०६
lel llell llell llell Isil Isl
Is संयतीयनाम
अष्टादशमध्ययनम्
IST
lall
अष्टौ राजाङ्गजाः श्रेष्ठा, दिशां श्रिय इवाऽऽहताः । एकेनाह्ना पितृभ्यां स, पर्यणायि महामहैः ।।७।। वधूवराणां तेषां च, यौतकं तद्ददौ नृपः । वंश्यादासप्तमात्काम, दातुं भोक्तुं च यद्भवेत् ।।८।। ताभिः सद्गुणकान्ताभिः, कान्ताभिः सममष्टभिः । कामभोगान्यथाकाम, सोऽभुक्त सततं ततः ।।९।। साधुपञ्चशतीयुक्तः, वंश्यः श्रीविमलार्हतः । आचार्यो धर्मघोषाख्यः, पुरे तत्राऽन्यदाऽऽययौ ।।१०।। तं च श्रुत्वाऽऽगतं तुष्ट-मनाः श्रीमान्महाबलः । गत्वा प्रणम्य शुश्राव, धर्म कर्ममलोदकम् ।।११।। ततोऽवाप्तः स वैराग्यं, मन्दभाग्यैः सुदुर्लभम् । श्रीधर्मघोषसूरीन्द्र, प्रणम्येति व्यजिज्ञपत् ।।१२।। धर्मोऽसौ रोचते मां, जीवातुरिव रोगिणे । तत्पृष्ट्वा पितरो याव-दायामि व्रतहेतवे ।।१३।। तावत्पूज्यैरिह स्थेयं, मयि बाले कृपालुभिः । सूरिरूचे युक्तमेत-त्प्रतिबन्धं तु मा कृथाः ! ।।१४।। (युग्मम्) सोऽथ गत्वा गृहं नत्वा, पितरावित्यवोचत । धर्मघोषगुरोधर्म, श्रुत्वाऽवापमहं मुदम् ।।१५।। तत्पूज्यानुज्ञया दीक्षा-मादित्सेऽहं तदन्तिके । सम्प्राप्यापि प्रवहणं, मग्नस्तिष्ठति कोऽम्बुधौ ? ।।१६।। मूर्छिता न्यपतत्पृथ्व्यां, तञ्च श्रुत्वा प्रभावती । कथञ्चिल्लब्धसज्ञा तु, रुदतीति जगाद तम् ।।१७।। विश्लेषं नेश्महे सोढुं, पुत्र ! प्राणप्रियस्य ते । तद्यावत्स्मो वयं ताव-त्तिष्ठ पश्चात्परिव्रजेः ।।१८।। कुमारः स्माह संयोगाः, सर्वेऽमी स्वप्नसनिभाः । नृणामायुश्च वातास्त-कुशाग्रजलचञ्चलम् ! ।।१९।।
lol llll Ifoll llol
lel
lal
Ie1
For Personal
Use Only