SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ Isll उत्तराध्ययन सूत्रम् lish ८०५ lei llell lIsll lioll lell llel ला संयतीयनाम राज्यं गुणैः समृद्धं सम्पन्न गुणसमृद्ध, प्राच्य तु'शब्दस्यापिशब्दार्थस्य भिन्नक्रमस्येह योगाद्गुणसमृद्धमपि प्रहाय त्यक्त्वा महायशाः । इह च लघुवृत्ती यो ll अष्टादशकाशिराजो नन्दनाह्वः सप्तमबलदेवो विजयश्च द्वितीयबलदेव इति व्याख्यातमस्ति, तत एतौ तावन्यौ वा यथागमं वाच्यौ, निर्णयाभावामात्र नानयोः | is मध्ययनम् H कथा लिखितेति ।।५०।।। Isll तहेवुग्गं तवं किञ्चा, अव्वक्खित्तेण चेअसा । महब्बलो रायरिसी, आदाय सिरसा सिरीं ।।५१।। व्याख्या - तथैव उग्रं तपः कृत्वा अव्याक्षिप्तेन चेतसा महाबलो राजर्षिरादाय गृहीत्वा शिरसेव शिरसा शिर:-प्रदानेनेव जीवितनिरपेक्षमित्यर्थः, श्रियं भावश्रियं संयमरूपां तृतीयभवे परिनिर्वृत इति शेषः । तत्कथा त्वेवम् - अत्रैव भरतक्षेत्रे, नगरे हस्तिनापुरे । बलो नामाऽतुलबलो, वसुधाखण्डलोऽभवत् ।।१।। दीप्रप्रभावती तस्य, जज्ञे राज्ञी प्रभावती । अन्यदा तु सुखं सुप्ता, सिंहं स्वप्ने ददर्श सा ।।२।। ||s तया मुदितया पृष्टः, स्वप्नार्थमथ पार्थिवः । प्रोचे भावी तव सुतो-ऽस्मत्कुलाम्भोधिचन्द्रमाः ।।३।। तन्निशम्य मुदं प्राप्ता, दधौ गर्भ प्रभावती । काले च सुषुवे पुत्रं, पवित्रं पुण्यलक्षणैः ।।४।। ||Gll प्राज्यं जन्मोत्सवं कृत्वा, शिशोस्तस्याभिधां व्यधात् । महाबल इति मापः, प्रमोदाद्वैतमाश्रितः ।।५।। लाल्यमानोऽथ धात्रीभिर्वर्द्धमानः क्रमेण सः । कलाकलापमापन्नः, पुण्यं तारुण्यमासदत् ।।६।। ८०५ livel Ifoll all Ioll 161 IIsl lil liol | ||ll || Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy