SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् II संयतीयनाम अष्टादशमध्ययनम् ||७|| s lll Illl ८०३ Isl ||ell तृतीयवारमप्येवं, देवताऽपाहरद्विषम् । तद्भक्तिरागविवशा-ऽभ्रमत्तत्पृष्ठतश्च सा ! ।।२१२।। अन्यदा च प्रमत्तायां, देव्यां सविषमेव सः । बुभुजे दधि भाव्यं हि, भवत्येव यथातथा ! ।।२१३।। ततोऽङ्गव्याकुलतया, ज्ञात्वाऽऽत्मानं विषाशिनम् । चकारानशनं साधुः, समतारससागरः ! ।।२१४ ।। त्रिंशद्दिनान्यनशनं, पालयित्वा समाहितः । केवलज्ञानमासाद्य, स राजर्षिः शिवं ययौ ।। २१५ ।। तस्मिन्मुक्तिं गते तत्रा-ऽऽगता सा देवता पुनः । ज्ञात्वा तथा मुनेरन्त-मन्तःकोपं दधौ भृशम् ! ।। २१६।। साऽथ वीतभये पांशु-वृष्टिं रुष्टा व्यधात्तथा । यथा जज्ञे पुरस्थाने, स्थलं विपुलमुचकैः ! ।।२१७ ।। शय्यातरं मुनेस्तस्य, कुम्भकारं निरागसम् । सा सुरी सिनपल्यां प्राग, निन्ये हत्वा तत: पुरात् ।। २१८ ।। तस्य नाम्ना कुम्भकार-कृतमित्याह्वयं पुरम् । तत्र सा विदधे किं वा, दिव्यशक्तेर्न गोचरः ? ।। २१९ ।। इतश्च केशिनं राज्ये, यदा न्यास्थदुदायनः । तदा तत्तनयोऽभीचि-रिति दूनो व्यचिन्तयत् ।। २२०।। प्रभावतीकुक्षिभवे, सनये भक्तिमत्यपि । सुते मयि सति क्षमापो, राज्यं यत्केशिने ददौ ।।२२१।। न हि चक्रे विवेकाऽर्ह, पिता तन्मे विवेक्यपि । भागिनेयो हि नाऽऽनेयो, धाम्नीत्युक्तं जडैरपि ! ।। २२२ ।। हित्वाऽङ्गजं निजं राज्ये, जामेयं न्यस्यतः पितुः । वारकः कोऽपि किं नासी-दुनिमित्तमभून किम् ? ।। २२३ ।। प्रभुः पिता मे यदि वा. यथाकामं प्रवर्त्तताम् । न तूदायनसूनोर्मे, युज्यते केशिसेवनम् ! ।। २२४ ।। Nei lol ८०३ in Eco For Person Pause Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy