SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ ||७|| Poll उत्तराध्ययन सूत्रम् ७९६ Isl संयतीयनाम अष्टादशमध्ययनम् न चाहं कामये जातु, तातकल्पममुं नृपम् । तत्प्रद्योतोऽस्तु मे भर्ता, नृपः स हि महर्द्धिकः ।।१२२।। एवं विचिन्त्य सा चेटी, गुटीकामेकामभक्षयत् । तत्स्वरूपं ततो गत्वा प्रद्योताय जगौ सुरी ।।१२३।। तामानेतुं ततो दूतं, प्रेषीत्प्रद्योतभूधवः । सुवर्णगुलिका तं च, व्याजहारेति मानिनी ।।१२४ । । मामाह्वातुमिहायातु, स राट् पश्यामि तं यथा । अदृष्टपूर्वमभ्येति, कामिनं न हि कामिनी । ।। १२५ ।। इति तद्वचनं दूतो, गत्वा राज्ञे व्यजिज्ञपत् । सोऽप्यारुह्यानलगिरिं, तत्र रात्रावुपागमत् ।। १२६ ।। तं च प्रेक्ष्यानुरक्ता सा, प्रोचे चेत्प्रतिमामिमाम् । सहादत्से तदाऽऽयामि, त्वया सह महीपते ! ।।१२७ ।। . इह विन्यासयोग्याऽन्या, नास्ति प्रतिकृतिस्ततः । तामानयामि त्वचेतो, मानयामि मनस्विनि ! ।।१२८।। इत्युदीर्य ततोऽवन्ती-मवन्तीशोऽगमद् द्रुतम् । तादृशीमपरां वीर-प्रतिमां च व्यधापयत् ।। १२९ ।। (युग्मम्) ता च सम्यक् प्रतिष्ठाप्य, कपिलेन महर्षिणा । गन्धद्विपेन तेनाऽऽगा-द्भूयो वीतभये निशि ।। १३०।। दन्तिनं तं बहिर्मुक्त्वा, ताम_मुद्वहन्मुदा । अपाकृत्य भियं तत्रा-ऽविशत्का कामिनां हि भी: ? ।। १३१ ।। तत्र तां प्रतिमां न्यस्य, देवदत्तार्चया समम् । तां दासी देवदत्तावां, हत्वा स स्वपुरीमगात् ।।१३२।। तद्गन्धेभः सविण्मूत्रं, तदा वीतभयेऽमुचत् । तद्गन्धेन च तत्रत्या, गजा: सर्वे मदं जहुः ।। १३३।। गन्धः स च यतोऽभ्यागा-त्तां दिशं ते मुहर्मुहुः । उत्तब्धशुण्डा व्यात्तास्या:, स्तब्धकर्णा व्यलोकयन् ।।१३४।। ||sil ||6| ७९६ le foll lell lsil lall llall Jain Education International For Personal & Private Use Only www.alibra
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy