________________
isll Islil Poll Isil
उत्तराध्ययन
सूत्रम्
संयतीयनाम अष्टादशमध्ययनम्
७९५
llel
16ll lish
llel
16ll Hell Hell
Nell
प्रतिबुद्धस्ततो राजा, श्राद्धधर्ममुपाददे । प्रगेऽब्दगर्जिवन्मोघो, नोपायः खलु नाकिनाम् ! ।।११०।। प्रादुर्भूयाऽथ तं धर्मे, स्थिरीकृत्य स निर्जरः । स्वर्जगाम ततो भूमा-नाऽऽस्थानस्थं समैक्षत ।।१११।। एवं श्रावकतां प्राप्तः, स महीधवपुङ्गवः । अर्थ्याभिर्विविधाभिस्ता-म_माझयदन्वहम् ।। ११२।। इतश्च व्रतमादित्सु-र्गान्धारः श्रावकः कृती । अवन्दत मुदा सर्वाः, 'सार्वकल्याणकावनीः ।। ११३।। वैताढ्ये शाश्वतीराः, सोऽथ श्राद्धो विवन्दिषुः । आरराधोपवासस्थः, सम्यक्शासनदेवताम् ।।११४।। तुष्टा देवी ततस्तस्मै, तानि बिम्बान्यदर्शयत् । ददौ च सकलाभीष्ट-विधायि गुटिकाशतम् ।। ११५ ।। ततो निवृत्तः स श्राद्धः, श्रुत्वा दत्तां सुधाभुजा । तामां चान्दनीं नन्तु-मागाद्वीतभयं पुरम् ।। ११६ ।। तत्र तं श्रावकं जात-मान्द्यं दैवनियोगतः । स्वतातमिव सद्भक्तया, कुब्जा प्रतिचचार सा ।। ११७ ।। ततः क्रमाद्गतः स्वास्थ्यं, स कृतज्ञशिरोमणिः । तस्यै ता गुलिकाः सर्वा, दत्वा दीक्षामुपाददे ।। ११८ ।। भूयासमनया स्वर्ण-वर्णाऽहं सुन्दराकृतिः । ध्यात्वेति गुलिकामेकां, भुजिष्या बुभुजेऽथ सा ।।११९ ।। आय सीव कुशी सिद्ध-रसवेधेन सा द्रुतम् । बभूव तत्प्रभावेण, चारुचामीकरच्छविः ।।१२०।।
सुवर्णगुलिकेत्याह्वां प्राप्ता सा व्यमृशत्ततः । भोक्तारमन्तरा फल्गु, रूपं मे वनपुष्पवत् ।। १२१ ।। जिनकल्याणकभूमीः ।। २ दासी ।। ३ लोहमयी इव ।। ४ निकृष्ट असारमित्यर्थः ।।
Isll llol ॥७॥ foll
lel
|| Isl
lion
lol
leel
lish
IGI llell
७९५
Iroll
ell
lel Isll
No.1 min Education International
For Personal & Private Use Only
www.jainelibrary.org