________________
|| ill संयतीयनाम
उत्तराध्ययन
सूत्रम्
Nell
७९२
Joll अष्टादश|| llroll
मध्ययनम्
lel
liGll
Hell
lel
अन्ये जगुर्जगद्धत्ते, युगान्ते यो निजोदरे । हन्ति दैत्यांश्च विश्वारीन्, स हि विष्णुः सुरोत्तमः ।।७३।। इत्यादाय तदाह्वानं, परशुर्वाहितोऽपि तैः । जगाम मोघतामोघे, 'शैवलिन्या इवाऽनलः ।।७४ ।। प्रोचुः परे तु यस्यांशी, विधिविष्णू स एव हि । वामदेवो देवदेवो, विश्वयोनिरयोनिजः ।।७५।। अभिधामभिधायेति, तस्य तैः पशुना हतम् । तन्नाभिद्यत पारीन्द्र-पुच्छेनेव गिरेस्तटम् ।। ७६।। ततस्तेषु 'विहस्तेषु, विमृशत्सु भृशं मिथः । तदाकाययौ तत्र, महादेवी प्रभावती ।।७७।। विधाय विधिवत्पूजा, तस्य काष्ठपुटस्य सा । उजगार सुधोद्गारो-पमा रम्यामिमां गिरम् ।। ७८ ।। गतरागद्वेषमोहः, प्रातिहाथैर्युतोऽष्टभिः । देवाधिदेवः सर्वज्ञो, देयान्मे दर्शनं जिनः ।। ७९।। इत्युदीर्य तया स्पृष्ट-मात्रमप्याशु पशुना । तदारु व्यकसद्भानु-भानुना नलिनं यथा ! ।।८।। अम्लानमाल्या सर्वाङ्ग-सुभगा सकला ततः । मूर्तिराविरभूद्वीर-विभोर्लक्ष्मीरिवार्णवात् ।। ८१।। तां प्रेक्ष्य वचनातीतां, मुदं प्राप्ता प्रभावती । अभ्यर्च्य भक्तया सन्तुष्टा, तुष्टाव सरसः स्तवैः ।। ८२।। जज्ञे प्रभावना जैन-शासनस्य ततो भृशम् । आनुकूल्यं दधौ किञ्चि-नृपोऽपि जिनशासने ।। ८३।।
अन्तरन्तःपुरं चैत्यं, विधाप्याथ धराधवः । तत्र न्यवीविशत्सार्व-प्रतिमां तां महामहः ।। ८४।। १ शेवलिन्या ओधे नद्याः प्रवाहे ।। २ व्याकुलेषु ।।
NE
Poll Mell ||Gll Poll
all
Ioll
||ll
IST
७९२
ell
||Gll
lifoll ||Gll
llelil in Education international
For Personal & Private Use Only
www.jainelibrary.org