________________
उत्तराध्ययन
सूत्रम् ७९१
संयतीयनाम अष्टादशमध्ययनम्
leir
llsil ||sil lell lisil
Ioll
गार्हस्थ्येऽपि कृतोत्सर्ग, भावसाधुत्वसाधनात् । श्रीवर्द्धमानतीर्थेशं, ददर्श प्रणनाम च ! ।।६१।। (युग्मम्) द्राग् महाहिमवत्यद्रौ, ततो गत्वा स दैवतः । गोशीर्षचन्दनं विश्वा-नन्दनामोदमाददे ।। ६२।। प्रतिरूपं प्रभोस्तत्र, यथादृष्टं विधाय सः । सत्काष्ठसम्पुटे हारं, समुद्गक इव न्यधात् ।। ६३।। षण्मासीं यावदुत्पाता-दब्धौ भ्राम्यदितस्ततः । सोऽथ बोहित्थमैक्षिष्ट, व्यग्रसांयात्रिकव्रजम् ।। ६४।। ततो हत्वा तदुत्पातं, प्रत्यक्षीभूय स स्वयम् । सांयात्रिकेभ्यो दत्वा त-दारुसम्पुटमित्यवक् ।।६५।। इह देवाधिदेवस्य, मूर्तिय॑स्तास्ति चान्दनी । तदादाय तदाह्वानं, भेदनीयमिदं मुदा ।।६६।। युष्माभिरित्युदीर्यादो, देयं वीतभयप्रभोः । कार्यं षाण्मासिकोत्पात-हर्तुः कार्यमियन्मम ।। ६७।। तन्मुदा प्रतिपन्नेषु, तेषु देवस्तिरोदधे । 'पारावारस्य पारं च, वणिजस्तेऽपि लेभिरे ।।६८।। पुरं वीतभयं प्राप्तास्तेऽथ तत्काष्ठसम्पुटम् । राज्ञस्तापसभक्तस्यो-दायनस्योपनिन्थिरे ।।६९।। तां च गीर्वाणवाणीं ते, विज्ञा राज्ञे व्यजिज्ञपन् । श्रुत्वा तद्बहवो विप्र-'सरजस्कादयोऽमिलन् ।।७।। तेष्वेकेऽवादिषुर्वेद-वादी विश्वविधायकः । देवाधिदेवो ब्रह्मा, तद्भेद्यमेतत्तदाह्वया ।।७१।।
इत्युक्त्वाऽऽख्याय तस्याख्या, तत्र मुक्तः शितोऽपि तैः । कृतीव विस्मृते शास्त्रे, कुठारः कुण्ठतां ययौ ।। ७२।। १ समुद्रस्य ।। २ योगी ।।
lil llsil ||6| Isil
lil JION
l/6ll
liol
७९१
llol
llsil
lIslil
llll lain daction intelle
For Personal & Private Use Only
Deall
oeww.jainelibrary.org