SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ un fel ||61 ॥ संयतीयनाम isll अष्टादश|| मध्ययनम् उत्तराध्ययन सूत्रम् ७९० I6I Mel el lloil ||sl llell 16ll Ill Ill ||sll Ilol उपस्थितेऽन्यदा नन्दी-श्वरयात्रामहोत्सवे । नश्यतोऽपि गले विद्यु-न्मालिनः पटहोऽपतत् ।। ४८।। अस्मत्कान्तेन वाद्योऽसौ, ध्रुवं तत्किं पलायसे ? । इति हासाप्रहासाभ्यां, प्रोचे स व्यन्तरस्तदा ।। ४९।। ततस्तं वादयन् शक्र-पुरो नन्दीश्वरे गतः । तत्रागतेन सोऽदर्शि, तेन श्राद्धसुधाभुजा ।।५०।। ततस्तं निकषा श्राद्ध-सुरः सोऽगाद्यथा यथा । तत्तेजोऽसहमानोऽसौ, पलायत तथा तथा ।। ५१।। स्वतेजः सोऽथ संहृत्य, मां जानासीति तं जगौ । सुरान् शक्रादिकान्को हि, न जानातीति सोप्यवक् ? ।।५२।। तत: प्राग्भवरूपं स्वं, प्रदयेत्यवदत्स तम् । सोऽहं नागिलनामास्मि, पूर्वजन्मसुहृत्तव ।। ५३।। मृतं कुमृत्युना प्रेक्ष्य, तदा त्वां भोगकाम्यया । विरक्तः प्राव्रजमहं, ततः प्रापमिमा रमाम् ।।५४।। निषिद्धोऽपि मया बाल-मृत्युना त्वं मृतोसि यत् । प्रापः कष्टेन तेनापि, तदेवं देवदुर्गतिम् ।।५५।। अथ धर्म जिनप्रोक्तं, तदा चेदकरिष्यथाः । मद्वत्तदा त्वमप्येवं, स्वर्लक्ष्मीमवरिष्यथाः ।।५६।। प्रबुद्धः स ततोऽवादी-त्किं गतस्यानुशोचनैः ? । अथ किञ्चित्तदाख्याहि, येनाऽमुत्र शुभं लभे ।। ५७।। ऊचे श्राद्धसुरो वीर-जिनस्य प्रतिमां कुरु । सुलभं बोधिरत्नं स्या-द्यथा तब भवान्तरे ।।५८।। दौःस्थ्यदुर्गतिदुःखादि, नाऽर्हद कृतं भवेत् । धर्मश्च जायते स्वर्गा-पवर्गसुखदायकः ! ।।५९।। ततः क्षत्रियकुण्डाख्य-ग्रामे गत्वा स निर्जरः । सालङ्कारं निर्विकारं, साराकारं गुणाकरम् ।। ६०।। ||Gl || Ilal ||७|| llll llell 116ll Jell Isl ७९० llel Jer llel ||s Jell in Education n ational For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy