SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् संयतीयनाम अष्टादशमध्ययनम् hell ||61 ॥७॥ ७८९ sil llel llell llsil कर्णोऽपि लभते भूषाः, सोढच्छेदनवेदनः । सोढदाहादिकष्टं च, स्वर्णमप्यनुते मणीन् ! ।।३५ ।। तद्गत्वा स्वगृहं दत्वा, दीनादीनां निजं धनम् । कृत्वा वह्निप्रवेशादि-कष्टं त्वमपि सत्वरम् ।।३६ ।। द्वीपस्यास्य श्रियामासा-मावयोश्च पतिर्भव । भूरिलाभाय दक्षैर्हि, किञ्चित्कष्टमपीष्यते ! ।।३७।। (युग्मम्) अथ तत्र कथं यामी-त्युक्ते रक्तेन तेन ते । चम्पापुर्यां निन्यतुस्तं, कलादं विकलं स्मरात् ! ।। ३८।। कथमागाः किञ्च चित्रं ?, तत्रेत्युक्तोऽथ नागरैः । हा ! क्व हासाप्रहासे ते, इत्येव स्माह सोऽसकृत् ।। ३९।। इङ्गिनीमृत्युना मर्तु-मुद्यतं तं जडं ततः । व्याजहारेति तन्मित्रं, श्रावको नागिलाह्वयः ।। ४०।। भो ! मित्राऽमात्रधीपात्र !, नैतत्कापुरुषोचितम् । युज्यते भवतः कर्तुं, सिंहस्येव तृणाशनम् ।। ४१।। किञ्चातितुच्छभोगार्थ, दुर्लभं मानुषं भवम् । मा हार्षी[सदां रत्न-मिव काचकृते कृतिन् ! ।। ४२।। अथ यद्यपि ते वाञ्छा, भोगेष्वेव तथापि हि । धर्ममेवाचराभीष्ट-दायिनं सुरशाखिवत् ।। ४३।। मित्रोपदेशमप्येनं, मोहोन्मत्तोऽवमत्य स: । आपादादाशिरोदेह-माच्छाद्य छागगोमयः ।। ४४।। चिरं दारुवदध्रिभ्यां, प्रदत्तेनाग्निना ज्वलन् । देव्योस्तयोः स्मरन्मृत्वा, विद्युन्मालित्वमासदत् ।। ४५।। (युग्मम्) तमेवमिङ्गिनीमृत्या, मृतं वीक्ष्य विरक्तधीः । अहो ! विमूढा भोगार्थ, क्लिश्यन्त इति चिन्तयन् ।। ४६।। प्रव्रज्य नागिलश्राद्धो, विपद्याऽभूत्सुरोऽच्युते । ददर्शाऽवधिना तं च, वयस्यं पूर्वजन्मनः ।। ४७।। (युग्मम्) IIel Mail ||७|| ||6|| Non Isil I llell 116 llel ller Isl llel ||७|| || ७८९ lion ||Gll sil ||Gll in Education lice ||Gll Isl lanwwwjainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy