________________
IST
उत्तराध्ययन
सूत्रम् ७८८
॥ संयतीयनाम ||७|| अष्टादशlol मध्ययनम् llol lish
I
Pol Mal
तत्प्रपद्य मुदा कोऽपि, जरी जीवितनि:स्पृहः । विधाप्य पोतं पाथेय-पाथोमुख्यैरपूरयत् ।। २३।। Isil
निजानामङ्गजानां च, वित्तकोटिं वितीर्य ताम् । कुमारनन्दिना साक-मारोहद्वहनं स तत् ।। २४ ।। दिन: कियद्धिस्तस्मिंश्च, पोते दूरं गतेऽम्बुधौ । पुरः पश्यसि किं किञ्चि-दित्यूचे नन्दिनं जरी ।। २५ ।। श्यामं किमपि पश्यामी-त्युक्ते तेन जगौ जरन् । वटोऽयं दृश्यते वार्द्धि-तटस्थाद्रिनितम्बजः ।। २६ ।। यास्यत्यवश्यमस्याधो, यानपात्रमिदं च नः । ततस्तूर्णं त्वमुत्प्लत्या-ऽमूढोऽस्मिन्विलगेस्तरौ ।।२७।। वसन्ति 'वसतावस्मिन्, गिरी भारण्डपक्षिणः । ते च प्रात: पञ्चशैलं, व्रजन्ति चुणिहेतवे ।।२८।। अंहयः स्युस्त्रयस्तेषां, ततस्त्वं मध्यमे क्रमे । पटेन स्वं निबध्नीयाः, तस्य सुप्तस्य कस्यचित् ।। २९।। ततस्त्वां पञ्चशैलाख्य-द्वीपे नेष्यन्ति ते खगाः । शक्ष्याम्यहं तु 'प्रवया, ग्रहीतुं न हि तं वटम् ।।३०।। वटात्पुरो महावर्ते, पोतस्त्वेष पतिष्यति । तत्रैव च मया सार्द्ध, विनाशमुपयास्यति ! ।।३१।। अथ त्वमपि चेयग्रो, न्यग्रोधं न ग्रहीष्यसि । तदा तूर्णं तमावर्त, गते पोते मरिष्यसि ! ।।३।।
एवं वृद्धे वदत्येव, वटाधो वहनं ययो । विलग्नः सोऽपि तत्र द्राक्, पञ्चशैलमगात्ततः ।।३३।। III 16
तं चायातं भोक्तुमुक्तं, ते देव्यावित्यवोचताम् । अनेन भघनेन त्वं, न नो भोगाय कल्पसे ! ।।३४।। १ रात्री ।। २ चरितुम् ।। ३ खः ।।
Isil
lell isill Isll Isl
७८८
llell Itall
For Personal
use only