SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७८६ లె లెలై llll TS TATTOO ATTTTE सोवीररायवसहो, चइत्ताण मुणी चरे । उद्दायणो पव्वइओ, पत्तो गइमणुत्तरं ।। ४८ ।। व्याख्या - सौवीरेषु राजवृषभस्तत्कालीननृपप्रधानत्वात् सौवीरराजवृषभः, त्यक्त्वा राज्यमिति शेषः, मुनिश्चरेत् अचारीत् मुनिचर्ययेति ॥७॥ शेष:, 'उद्दायणोत्ति' उदायननामा प्रव्रजितः सन् चरित्वा च प्राप्तो गतिमनुत्तराम्, तत्कथा त्वेवम् - Jain Education Intonal अत्रैव भरतक्षेत्रे, सिन्धुसौवीरनीवृति । सान्वर्थनामकं वीत- भयाभिधमभूत्पुरम् ।। १॥ तत्रोदायननामाऽऽसी-त्सुकृतोदयकृन्नृपः । राजितः सहजैः शौर्य-धैर्योदार्यादिभिर्गुणैः ।। २ ।। वीतभयादिपुराणां त्रिषष्ट्यग्रं शतत्रयम् । सिन्धुसौवीरमुख्यांश्च, देशान् षोडश पालयन् ।। ३ ।। सेवितो दशभिर्वीरैर्महासेनादिभिर्नृपैः । स भूपालोऽत्यगात्कालं, श्रिया शक्र इवापरः ।।४।। (युग्मम्) तस्य प्रभावती राज्ञी, जज्ञे चेटकराट्सुता । बिभ्रती मानसे जैनं धर्मं पतिमिवाऽनिशम् ।।५।। तत्कुक्षिजो यौवराज्यं प्राप्तस्तस्य महीपतेः । नन्दनोऽभीचिनामाऽऽसी- त्केशी च भगिनीसुतः ।। ६ ।। इतश्च पुर्यां चम्पायां, स्वर्णकारो महाधनः । कुमारनन्दीनामाऽभू-ल्ललनालोलमानसः ! ।।७।। ददर्श कन्यकां यां यां, यत्र यत्र मनोहराम् । निष्कपञ्चशतीं दत्त्वा तां तां परिणिनाय सः ।। ८ ।। इत्थं पञ्चशतानि स्त्री-रुदूढोऽपि स नाऽतृपत् । स्त्रीधनायुष्कभोज्येषु, प्रायोऽतृप्ता हि जन्तवः ! ।। ९ ।। ပင် For Personal & Private Use Only OTOS संयतीयनाम अष्टादशमध्ययनम् ७८६ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy