________________
उत्तराध्ययन
सूत्रम् ७८२
is संयतीयनाम
अष्टादशमध्ययनम्
आरूढसिन्धुरा भूषा-बन्धुराश्च सहस्रशः । सामन्ताः परिवठ्ठस्तं, शक्रं सामानिका इव ।। ६४।। पादाभ्यां प्रेरितो राज-कुञ्जरेणाऽथ कुञ्जरः । शनैः प्रववृते गन्तुं, भूमिभङ्गभयादिव ! ।।६५।। सहस्रशस्तदाऽन्येऽपि, वारणा वैरिवारणा: । चलाचलोपमाश्चेलु-र्मणिमण्डनमण्डिताः ।।६६।। सहोदरा: 'सप्तसप्तिसप्तीनां तत्र सप्तयः । लक्षशः पुपुषुर्लक्ष्मी, भूरिभूरिविभूषणाः ।।६७।। आयुक्तहरयो हारि-श्रियस्तत्र सहस्रशः । रथा दिद्युतिरे तिग्म-द्युतिस्यन्दनसोदरा: ।। ६८।। नानाविधायुधभृतः, पत्तयोऽपविपत्तयः । शिश्रियुः सुषमा वीर-कोटीरास्तत्र कोटिशः ।।६९।। अध्यासितानि राजीनां, पञ्चशत्या पृथक् पृथक् । रेजिरे याप्ययानानि, सदेवीकविमानवत् ।।७०।। प्रक्वणत्किङ्किणीक्वाण-मुखरीकृतदिग्मुखाः । अभ्रंलिहा ध्वजा रेजुः, पञ्चवर्णाः सहस्रशः ।। ७१।। आतोद्यैर्लक्षशो भम्भा-भेरिप्रभृतिभिस्तदा । युगपद्वादितैर्जज्ञे, शब्दाद्वैतमयं जगत् ।। ७२।। मुदा मङ्गलवाक्यानि, पेठुर्मङ्गलपाठकाः । श्रवःसुधाश्रवागीति-रगायन् गायनास्तदा ।।७३।। वारवध्वोऽप्सर:कल्पा, गायन्त्यो भगवद्गुणान् । नृत्यं चक्रुस्तदा हृद्यं, पुरो राज्ञः पदे पदे ।।७४।।
इत्थं महद्धिभिर्भव्य-जीवानां मोदयन्मनः । सिञ्चन् सद्भावपीयूषैः, सुकृतक्षोणि जन्मनः ।।७५।। सूर्यान्वानाम् ।। २ अन्वाः ।। ३ सप्तशत्या इति तु 'घ' संज्ञकपुस्तके ।। ४ शिविका पालखी-इति भाषा ।। ५. जनान् ।।
|| Nell ||७|| Isll
||
Ie1 Jell
७८२
|ol
in Education International
For Personal & Private Use Only
www.jainelibrary.org