________________
उत्तराध्ययन
सूत्रम् ७७९
संयतीयनाम अष्टादश
मध्ययनम्
सोशंसत्स्नात एवाह, स्नातायां त्वयि वल्लभे । साऽलपन्न ह्यसौ धर्मो-ऽस्माकं तदिति मा कृथाः ।। २७।। वयं हि शैवास्तेषां च, न प्सानं स्नानमन्तरा । तयेत्युक्तोऽपि स व्यक्तं, बलाद्धोक्तुं प्रचक्रमे ।।२८।। इतश्चाहं क्षुधाक्षामः, किं तिष्ठामीति चिन्तयन् । नटः कराभ्यां सघृष्य, फूलकार तिलान्मुहुः ।।२९।। सांन्यासीकस्ततोऽध्यासी-दसौ फूत्कुरुते फणी । तगृहेशेऽशनासक्ते, नश्याम्यहमलक्षितः ।।३०।। इति ध्यात्वाऽपवरका-निर्गत्य द्राग् ननाश सः । समयोऽयमिति ध्यायं-स्ततोऽनेशनटोऽपि सः ।।३१।। महत्तरसुतः प्रेक्ष्य, निर्यान्तौ तौ नरस्त्रियो । कावेतावित्यपृच्छत्तां, स्वच्छ: स्वच्छन्दचारिणीम् ।।३२।। तत उत्पन्नधी: प्रोचे, कुलटा कुटिलाशया । अस्नातो मा त्वमश्नीया, इत्युक्तं प्राग्मया हि ते ।।३३।। अस्मदावसथेऽजस्र-सेवया वासितो मया । इमावुमाहरौ नष्टा-वस्मादनानभोजनात् ! ।।३४।। तदाकर्ण्य मया दुष्टु, कृतमित्यनुतापवान् । प्रत्यायातः कथमिमा-वित्यूचे तां गृहाधिपः ।।३५।। गच्छत्यसौ विदेशे चे-द्रमे स्वैरमहं तदा । ध्यायन्तीति ततोऽवोच-त्स्वैरिणी पतिवैरिणी ।।३६।। सोद्यमेनैव सन्याय-मर्जितैः प्रचुरैर्धनः । चेदयसि चण्डीशी, प्रत्यायातस्तदा हि तौ ।।३७।। तत्प्रपद्य दशाणेषु, महत्तरसुतो ययौ । छेकोऽपि वञ्च्यते धर्म-छद्मना किं पुनः परः ? ।।३८।। क्षेत्रे कस्यापि तत्रासौ, कुर्वन्कार्यमुपार्जयत् । दश गद्याणकान्स्वर्णं, तशाल्पमिति नाऽतुषत् ।।३९।।
||oll
lall lisil
Ioil
|| III ||sil
MAP
७७९
llol
Isll
Non
II
For Personal & Private Use Only