SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ७७८ 2202♠♠♠222DD తాచాట్ లో లో US లో చర్ Jain Education Intional गृहं गत्वा नटकृते, पायसं च पपाच सा । स्त्रीवेषः सोऽपि तत्रागा नटेशप्रेषितो नटः ।। १४ ।। आसितस्याऽशितुं तस्य, पुरः सा पुंश्चली मुदा । स्थालमस्थापयद्यावत्, प्राज्यखण्डाज्यपायसम् ।।१५।। तावत्सांन्यासिकोऽभ्येत्य द्वारमुद्घाटयेत्यवक् । शनैस्तं नटमित्यूचे, ततः सा पांशुलाऽऽकुला ।। १६ ।। अस्मिंस्तिलापवरके, गत्वा त्वं तिष्ठ कोणके । तयेत्युक्तः सोऽपि तत्र, प्रविश्य द्राग् न्यलीयत ।। १७ ।। तयाऽथोद्घाटिते द्वारे, स रजस्कोन्तराऽऽगतः । किमिदं पायसापूर्णं, स्थालमस्तीत्युवाच ताम् ।। १८ ।। क्षुधितास्मीति भोक्ष्येऽहमित्युक्ते मायया तया । सोऽवादीदयि ! तिष्ठ त्व-महं भोक्ष्ये बुभुक्षितः ।। १९ ।। इत्युदित्वा बलाद्यावज्जारो भोक्तुमुपाविशत् । द्वारं प्रकाशयेत्यूचे, तावदेत्य गृहाधिपः ।। २० ।। क्व यामीति ततः पृष्टा, जारेण कुलटाऽब्रवीत् । तिलापवरके गत्वा, तिष्ठास्मिन्नातिदूरतः ।। २१ ।। कोणेऽस्य तिष्ठति व्यालः, कालः काल इवापरः । त्वया तत्र न गन्तव्यं, ततो जीवितमिच्छता ।। २२ ।। ओमित्युक्त्वा ततः सोऽपि तत्रापवरकेऽविशत् । भूयस्तमिस्रमिश्रत्वा तमिस्राभे दिवाऽपि हि ।। २३ ।। द्वारमुद्घाटयामास ततस्त्वरितमित्वरी । विवेश वेश्मनि ततो, गृहेश: सरलाशयः ।। २४ ।। क्षैरेयी किमियं स्थाले, क्षिप्तास्तीत्यब्रवीच्च ताम् । उवाच पुंश्चली भुक्तिं कुर्वेऽहमशनायिता ।। २५ ।। सोऽवदन्मम गन्तव्यं, कार्ये तद्भोक्ष्यते मया । सा प्रोचेऽद्याष्टमी तस्मादस्नातो भोक्ष्यसे कथम् ? ।। २६ ।। For Personal & Private Use Only STTTTTTTTTTTTTTISTS తాతాచాలా తా తాతా संयतीयनाम अष्टादश मध्ययनम् ७७८ ll www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy