________________
उत्तराध्ययन
सूत्रम् ७७६
Isil
leil Isil
अत्रैव भरते सम्पद्-गृहे राजगृहे पुरे । यशःसुधासमुद्रोऽभू-त्समुद्रविजयो नृपः ।।१।।
Moll संयतीयनाम पुण्यलावण्यतारुण्या, शीलालङ्कारशालिनी । वप्रः शालिगुणालीनां, वप्रा तस्य प्रियाऽभवत् ।।२।।
Isll अष्टादश
Toll मध्ययनम् द्विः सप्तभिर्महास्वप्नैः, सूचितोऽभूत्सुतस्तयोः । जयाह्वयो जयन्तस्य, जयन् रूपं वपुः श्रिया ।।३।। कलिन्दिकासुधाः पीत्वा, क्रमाद्यौवनमाश्रितः । स द्वादशधनुस्तुङ्ग, पित्र्यां राज्यधुरां दधौ ।। ४ ।। जातचक्रादिरत्नश्च, जितषटखण्डभारतः । बुभुजे रमणीरत्न-मिव चक्रिरमां चिरम् ।।५।। स चान्यदा भवोद्विग्नः, संविग्नस्यान्तिके गुरोः । राज्ये निधाय तनयं, सनयं प्राव्रजत्स्वयम् ।।६।।
ils सर्वायुषा त्रीनतिगम्य सम्यक्, समासहस्रान् जयचक्रवर्ती । तपोऽनिले: कर्मघनानपास्य, प्राप्योत्तमं ज्ञानमवाप मुक्तिम् ।।७।। इति श्रीजयचक्रिकथा ।। ४३।।
||Gl दसण्णरजं मुइअं, चइत्ता णं मुणी चरे । दसण्णभद्दो निक्खंतो, सक्खं सक्केण चोइओ ।। ४४।।
व्याख्या - दशाणों देशस्तद्राज्यं मुदितं प्रमोदवत् त्यक्त्वा 'णं' वाक्यालङ्कारे, मुनिश्चरेत् अचारीत् अप्रतिबद्धतया व्याषीदित्यर्थः । 6 दशार्णभद्रो निष्क्रान्तः, साक्षाच्छक्रेण चोदितोऽधिकसम्पदर्शनेन धर्म प्रति प्रेरित इति । तत्कथा त्वेवम् - श्रीमद्दशार्णविषये, दशार्णपुरपत्तने । दशार्णभद्रो भद्राणा-माकरोऽभून्महीपतिः ।।१।।
७७६ ||७ ||ril ||७|
lll
foll
New
leon
Well
ST
foll
Holl
ISM
Jain Education
allon
For Personal & Private Use Only
www.jainelibrary.org