________________
उत्तराध्ययन
सूत्रम् ७७५
संयतीयनाम अष्टादशमध्ययनम्
Islil lall ||all
अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामनि । महाहरिरभूद्भूमा-न्मेराह्वाना च तत्प्रिया ।।१।। हरिषेणस्तयोविंश्वानन्दनो नन्दनोऽभवत् । चतुर्दशमहास्वप्न-सूचितोऽस्वप्नजिन्महाः ।।२।। कलाकलापमापन्नो, वर्द्धमानः शशीव सः । चापपञ्चदशोत्तुङ्गः, पुण्यं तारुण्यमासदत् ।।३।। राज्यं प्राज्यं पितुः प्राप्य, तस्य पालयत: सतः । रत्नान्युत्पेदिरेऽन्येद्यु-श्चक्रादीनि चतुर्दश ।। ४ ।। ततः स साधयामास, षट्खण्डमपि भारतम् । जातचक्रित्वाभिषेको, भोगांश्च बुभुजे चिरम् ।।५।। भववासाद्विरक्तोऽथ, लघुकर्मतयाऽन्यदा । सोऽध्यासीदित्यसौ सम्पत्, प्राक्पुण्यैः सङ्गतास्ति मे ।।६।। पुण्यार्जनाय भूयोऽपि, प्रयत्नं विदधे ततः । विनार्जनां हि क्षपिते, मूले स्याहुःस्थता भृशम् ! ।।७।। ध्यात्वेति तनयं न्यस्य, राज्ये स व्रतमाददे । कर्मकक्षमधाक्षीञ्च, सत्तपोजातवेदसा ।।८।। समासहस्राणि दशातिवाह्य, सर्वायुषा श्रीहरिषेणचक्री । घातिक्षयाज्ज्ञानमनन्तमाप्य, भेजे महानन्दमनिन्द्यकीर्तिम् ।।९।। इति श्रीहरिषेणचक्रिकथा ।। ४२।। अत्रिओ रायसहस्सेहिं, सुपरिञ्चाइ दमं चरे । जयनामो जिणक्खायं, पत्तो गइमणुत्तरं ।। ४३।।
व्याख्या - अन्वितो युक्तो राजसहस्रः, सुष्टु शोभनप्रकारेण राज्यादि त्यजतीत्येवंशील: सुपरित्यागी, दमं जिनाख्यातमिति सम्बन्धः, 'चरेत्ति' अचारीत् । जयनामा एकादशचक्री । चरित्वा च दमं प्राप्तो गतिमनुत्तराम् । तत्कथांशस्त्वयम् -
sil
Nell
liool
||oll
llsil llsil
||sl lisil
Jell Jell
Isl
Isl
Ner
७७५
JainEducation
a l
For Personal Private Use Only