SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३९ II MS समकमन्यमुनिभिः सह, न तु रसलम्पटतया समूहासहिष्णुतया वा एकाक्येव, गच्छस्थितसमाचारी चेयं, संयतः साधुर्भुञ्जीत, अश्नीयात्, 'जयंति' विनयनाम यतमानः, 'सुरसुर' 'चबचब' 'कसकसका' दि शब्दानकुर्वन्, 'अपरिसाडिअंति' परिशाटीरहितं यथा स्यात्तथेतिसूत्रार्थः ।। ३५ ।। यदुक्तं यतमान प्रथम मध्ययनम् इति तत्र वाग्यतनामाह - सुकडित्ति सुपक्कित्ति, सुच्छिण्णे सुहडे मडे । सुणिट्ठिए सुलट्ठत्ति, सावजं वजए मुणी ।।३६।। ___ व्याख्या - सुकृतं सुष्टु निवर्तितं अन्नादि, सुपक्वं घृतपूरादि, इति: उभयत्र प्रदर्शने, सुच्छिन्नं शाकपत्रादि, सुहृतं शाकपत्रादेMM स्तिक्तत्वादि, यद्वा सुहृतं सूपयवाग्वादिना पात्रकादेघृतादि, सुमृतं घृताद्येव सक्तुसूपादौ, सुनिष्ठितं सुष्ठु निष्ठा रसप्रकर्षात्मिकां गतं, सुलष्टं Mar अतिशोभनमोदनादि, अखण्डोवलस्वादुसिक्थत्वादिना, इत्येवं प्रकारमन्यदपि सावद्यं वचो वर्जयेन्मुनिः । यद्वा सुष्टु कृतं यदनेन रिपोः । 6 प्रतिकृतं, सुपक्वं मांसादि, सुच्छिन्नोऽयं न्यग्रोधादिः, सुहृतं कदर्यस्य धनं चौराद्यैः, सुमृतोऽयं प्रत्यनीकविप्रादिः, सुनिष्ठितोयं प्रासादकूपादिः, सुलष्टोऽयं करितुरगादिरिति सामान्येनैव सावा वर्जयेन्मुनिरिति । अनवद्यं तु सुकृतमनेन धर्मध्यानादि, सुपक्वमस्य Is वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतोऽयं शिष्यः स्वजनेभ्य उत्पावाजयितुकामेभ्यः, सुमृतमस्य पण्डितमरणमर्तुः, सुनिष्ठितोऽयं M& साध्वाचारे, सुलष्टोऽयं दारको व्रतग्रहणस्येत्यादिरूपं वाक्यं वदेदपीतिसूत्रार्थः ॥ ३६॥ सम्प्रति विनीतेतरयोरुपदेशदाने 8 गुरोर्यत्स्यात्तदर्शयन्नाह - For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy