SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् प्रथम ३८ 160 lel Jell गच्छेत्, तदप्रीत्यपवादादिदोषसम्भवात् । इह च मितं कालेन भक्षयेदिति भोजनविधिमभिधाय यत् पुनर्भिक्षाटनकथनं तद्ग्लानादिनिमित्तं स्वयं वा विनयनाम क्षुधामसहिष्णोः पुनर्धमणमपि न दोषायेति ज्ञापनार्थमिति सूत्रार्थः ।।३३।। पुनस्तद्गतमेव विधिमाह - मध्ययनम् णाइ उच्चे व णीए वा, णासपणे णाइ दूरओ । फासुअं परकडं पिंडं, पडिगाहिज्ज संजए ।।३४।। व्याख्या - नात्युचे गृहोपरिभूम्यादौ नीचे वा भूमिगृहादौ स्थित इति शेषः, तत्रोत्क्षेपनिक्षेपनिरीक्षणासम्भवात्, दायकापायसम्भवाच । यथा ॥ ॥ नात्युच्चो द्रव्यत उच्चैः कृतकन्धरो भावतश्चाहं लब्धिमानिति मदामातः, नीचश्च द्रव्यतोऽत्यन्तावनतग्रीवः भावतस्तु न मयाद्य किमपि लब्धमिति ॥ दैन्यवान्, वा शब्द उभयत्रापि समुञ्चये । तथा नासन्ने नातिदूरप्रदेशे स्थित इति शेषः, आसन्नातिदूरयोर्हि यथायोगं जुगुप्साशङ्कानेषणादयो दोषाः ।। Mell स्युः, तत्र स्थितश्च प्रासुकं सहजसंसक्तजजन्तुरहितं परेण गृहिणा स्वार्थं कृतं परकृतं पिण्डमाहारं प्रतिगृह्णीयात् स्वीकुर्यात्, संयतो यतिरितिसूत्रार्थ: islil II ।।३४ ।। पुनासैषणाविधिमाह - अप्पपाणप्पबीअंमि, पडिच्छण्णंमि संवुडे । समयं संजए भुंजे, जयं अपरिसाडिअं ।।३५।। व्याख्या - अत्राल्पशब्दोऽभाववाची, ततश्च अल्पप्राणे अवस्थितागन्तुकत्रसप्राणरहिते, तथाऽल्पबीजे शाल्यादिबीजवर्जिते, Mel उपलक्षणत्वात्सकलस्थावरजन्तुविकले च, प्रतिच्छन्ने उपरि आच्छादिते, अन्यथा सम्पातिमप्राणिसम्पातसम्भवात्, संवृते पार्श्वत: ॥ Moll कटकुड्यादिना सङ्कटद्वारे, अटव्यां तु कुडङ्गादौ स्थाने इति शेषः, अन्यथा दीनादिना याचने दानादानयोः पुण्यबन्धप्रद्वेषादिदोषदर्शनात्, । Isl ||sl Isl lll Gll Jell New Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy