________________
उत्तराध्ययन
सूत्रम्
७६७
Jain Education Inte
ŠEŠČANS
॥
दत्वा हस्तिपकायाथ, हस्तिनं तं वशीकृतम् । भूधरादिव 'पारिन्द्रः, पद्मस्तस्मादवातरत् ।। ६१ ।। धाना स्थानाच तं श्रेष्ठ कुलभूरिति भूपतिः । निश्चिकाय निजं धाम, निनाय च सगौरवम् ।। ६२ ।। तस्मै कृतोपचाराय, ददौ कन्याशतं नृपः । पुण्यैरगण्यैर्जामाता, प्राप्यते खलु तादृशः ! ।। ६३ ।। क्रीडंस्ताभिः समं नायं, व्यस्मरन्मदनावलीम् । भृङ्गो लवङ्गीभोगेऽपि किं विस्मरति पद्मिनीम् ? ।। ६४ ॥ खेचर्या वेगवत्या स, निशि सुप्तोऽन्यदा हृतः । प्रबुद्धो बद्धमुष्टिस्तां, किं रे ! मां हरसीत्यवक् ? ।। ६५ ।। साप्यूचे शूर ! हरण- कारणं शृणु मा कुपः ! । वैताढ्यपर्वते सूरो दयं नामास्ति सत्पुरम् ।। ६६ ।। तत्र चेन्द्रधनुः सञ्ज्ञो, विद्यते खेचरेश्वरः । श्रीकान्ता तद्वधूः पुत्री, जयचन्द्रा तयोः शुभा ।। ६७ ।। पुरुषद्वेषिणी साभू-दप्राप्य प्रवरं वरम् । दुःखाकरो हि दक्षाणां स्त्रीणां हीनः पतिर्भृशम् ।। ६८ ।। पटेषु भरतस्थानां, रूपाण्यालिख्य भूभुजाम् । अदर्शयमहं तस्यै, न किमप्यरुचत्परम् ।। ६९ ।। पटे मयाऽन्यदा रूपं, तवालिख्य प्रदर्शितम् । तस्याश्चित्तमयस्कान्त-मणिर्लोहमिवाकृषत् ! ।। ७० ।। चेदयं दयितो न स्यात्, तदाहमनलं श्रये । इति प्रत्यशृणोत्साऽथ, मत्वा त्वां खलु दुर्लभम् ! ।। ७१ ।। तस्यास्तस्यां प्रतिज्ञायां ज्ञापितायां मया रयात् । त्वामानेतुं तत्पितृभ्यां, हृष्टाभ्यां प्रहितास्म्यहम् ।। ७२ ।।
१. सिंहः ।।
For Personal & Private Use Only
|| संयतीयनाम अष्टादशमध्ययनम्
OSSDDDDD
७६७
"Miow.jainelibrary.org