________________
m
|| Isll
all 15
उत्तराध्ययन
सूत्रम्
Iroll
il संयतीयनाम
अष्टादशमध्ययनम्
७६५
ध्यात्वेति सुप्ते लोके सः, निर्गत्य स्वपुरानिशि । भ्रमन् स्वैरमरण्यान्त-स्तापसाश्रममासदत् ।।३७।। वल्लभाभ्यागतैस्तत्र, तापसैः कृतसत्कृतिः । सुखं प्रववृते स्थातुं, महापद्यः स्वसद्मवत् ।। ३८।। इतश्चाजनि चम्पायां, भूजानिर्जनमेजयः । स च कालेन राज्ञाऽऽजो, पराभूतः पलायत ! ।। ३९।। तत: पुरे भज्यमाने, नेशुलॊका दिशोदिशम् । अन्त:पुरमहेलाश्चा-ऽन्तरा त्रातारमातुराः ! ।। ४०।। तदा चम्पापते: पत्नी, नष्टा नागवती द्रुतम् । स्वपुत्र्या मदनावल्या, सममागात्तमाश्रमम् ।। ४१।। तदा च पद्ममदना-वल्योरन्योन्यदर्शनात् । क्षणादाविरभूद्रागो, 'मन्दाक्षं मन्दतां नयन् ! ।। ४२।। तद्विज्ञाय जगौ नाग-वतीति मदनावलीम् । पुरुषे यत्रतत्राऽपि, सुते ! किमनुरज्यसे ? ।। ४३।। भाविनी चक्रिणो मुख्य-पत्नी त्वमिति भाषितम् । ज्ञानिनो विस्मृतं किं ते ?, यद्भवस्येवमुत्सुका ! ।। ४४।। मिथोरक्ताविमौ कार्टी, विप्लवं मेति चिन्तयन् । स्थानं यथेष्टं याहीति, पद्यं कुलपति गौ ।। ४५।। तदाकर्ण्य ततः पद्यो, निर्ययौ विमना मनाक् । अभीष्टानां वियोगो हि, महतामपि दुःसहः ! ।। ४६।। नूनमेषा ममैव स्त्री, भाविनी भाविचक्रिणः । तत्साधयित्वा भरतं, परिणेष्याम्यम कदा? ।।४७।। विधाप्यारीतचैत्यैश्च, मण्डितामखिलामिलाम् । पूरयिष्ये कदा मातू, रथयात्रामनोरथम् ? ||४८।। लजाम् । २ उपद्रवम् ।।
ill M 16
७६५
ell lell
min Education International
For Personal & Private Use Only
www.jainelibrary.org