________________
उत्तराध्ययन
सूत्रम्
७६४
Jain Education Interdonal
सोऽथ तत्र महापद्म-युवराजेन सङ्गतः । तदमात्यपदं प्राप, पापोऽपि प्राच्यपुण्यतः ! ।। २४ ।। इतश्चासीत्प्रान्तवासी, दुर्गमं दुर्गमाश्रितः । नृपः सिंहबलः सिंहः, इव प्रबलविक्रमः ।। २५ ।। स च प्रदायावस्कन्दं, पद्मदेशे मुहुर्मुहुः । स्वदुर्गं प्राविशत्तं च, ग्रहीतुं कोऽपि नाशकत् ।। २६ ।। ध सिंहबलं जाना- स्युपायं कञ्चिदित्यथ । पृष्टो रुष्टेन पद्येन, वेद्यीति नमुचिर्जगौ ।। २७ ।। ततो मुदा महापद्ये नादिष्टः स गतो द्रुतम् । भङ्क्त्वा दुर्गं सिंहबलं बलाद्वद्ध्वा समाययौ ।। २८ ।। ततो वरं वृणीष्वेति प्रोक्तः पद्येन सम्मदात् । ऊचे नमुचिरादास्ये, काले वरममुं विभो ! ।। २९ ।। तत्प्रपद्य चिरं पद्मो, यौवराज्यमपालयत् । ज्वालादेव्याऽथ तन्मात्रा - ऽकारि जैनरथोऽन्यदा ।। ३० ।। मिथ्यादृष्टिस्तत्सपत्नी, लक्ष्मीर्ब्रह्मरथं तदा । विधाप्योचे नृपं ब्रह्म-रथः प्राग् भ्रम्यतां पुरे ।। ३१ ।। ततो ज्वालाऽलपद्धूपं न चेज्जैनरथोऽग्रतः । पुरे भ्रमिष्यति तदा, करिष्येऽनशनं ध्रुवम् ।। ३२ ।। द्वयोरपि स्यन्दनयो-र्यात्रां राजाऽरुणत्ततः । मातुर्दुःखेन तेनाथ, पद्मोऽभूद्धृशमातुरः ! ।। ३३ ।। दध्यौ चेति स्पृहा मातुः, मादृशेऽपि सुते सति । व्यलीयत मनस्येव कदर्य श्रीरिवावनौ ! ।। ३४ ।। सुपुत्रत्वाभिमानं हि, कथङ्कारं करोतु सः ? । शक्तोऽपि यः पूरयति, न मातुः सन्मनोरथान् ! ।। ३५ ।। कृतः पित्रापि मन्मातु- विशेषः कोऽपि न ह्यहो ! । तन्मानिनो न मे मानं, विनेहाऽवस्थितिः शुभा ! ।। ३६ ।।
For Personal & Private Use Only
ZTTTTTTTT
FTTTTTT
संयतीयनाम
अष्टादशमध्ययनम्
७६४
www.jainelibrary.org