SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७६३ ||६|| ॥७॥ ప ప ప డ త Boll ७१ प्राणिवधस्थानानि "पञ्च शूना गृहस्थस्य चूड़ी पेषण्युपस्करः । कण्डनी घोदकुम्भश्च बध्यते वास्तु वाहयन् ।।" (मनुः) २ कामम् ।। llell धर्मं चेद्वित्थ तद् ब्रूते-त्यूचे च नमुचिर्मुनीन् । क्षुद्रोऽयमिति विज्ञाय, ते तु तूष्णीकतां दधुः ।। १२ ।। ततः स शासनं जैनं, निन्दन्नुद्दिश्य सद्गुरून् । गौरयं किमु वेत्तीति, व्यब्रवीत्सचिवब्रुवः ।। १३ ।। मुखं कण्डूयते ते चेत्, तत्किञ्चिद् ब्रूमहे वयम् । अथेति गुरुभिः प्रोक्ते, तानेकः क्षुल्लको जगी ।। १४ ।। अनेन सह धृष्टेन, वक्तुं युक्तं न वः स्वयम् । विजेष्ये ह्यहमेवामुं, स्वपक्षं तद्वदत्वयम् ।। १५ ।। क्रुद्धः सोऽथावदद्वेद-बाह्याः शौचविवर्जिताः । देशे वासयितुं नार्हा, यूयं पक्षोऽयमस्तु मे ।। १६ ।। प्रत्यूचे क्षुल्लको वारि-कुम्भश्चल्ली प्रमार्जनी । कण्डणी पेषणीत्युक्ताः, पञ्च 'शूनाः श्रुतिष्वहो ! ।। १७ ।। हि शूना भजन्त्येता, वेदबाह्याः त एव हि । तद्वर्जितानामस्माकं तत्कथं वेदबाह्यता ? ।।१८।। अशौचं तु रतं तस्य, सेवकश्चाशुचिर्मतः । सुरताद्विरतास्तस्मा - त्कस्मादशुचयो वयम् ।। १९ ।। निरुत्तरीकृत इति, क्षुल्लकेन स धीसखः । वैरं महद्वहन् साधुष्वगाद्नेहं नृपान्वितः ।। २० ।। निशायां च मुनीन् हन्तुं क्रोधान्यः स वने गतः । धावन्निहन्तुमस्तम्भि, देव्या निर्ग्रन्थभक्तया ।। २१ ।। प्रातश्च तं तथा प्रेक्ष्य, विस्मिता नागरा नराः । नृपश्च धर्मं सूरिभ्यो, निशम्योपशमं ययुः ।। २२ ।। निन्द्यमानो जनैः सर्वै-र्विलक्षो नमुचिस्ततः । देव्या मुक्तो ययौ लज्जा - विहस्तो हस्तिनापुरम् ।। २३ ।। Jain Education International For Personal & Private Use Only MOOOT DOES LETOOSTT संवतीयनाम अष्टादशमध्ययनम् ७६३ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy