SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ Mel उत्तराध्ययन सूत्रम् ७६२ lol ||el 6 संयतीयनाम foll ||oll अष्टादश मध्ययनम् Jell llsil sil Isl ell चइत्ता भारहं वासं, चक्कवट्टी महिडीओ । चइत्ता उत्तमे भोए, महापउमो तवं चरे ।। ४१।। व्याख्या - सुगमं । तञ्चरितं त्वेवम् - अत्रैव भरतक्षेत्रे, श्रीहास्तिनपुरेऽभवत् । इक्ष्वाकुवंशकासार-पद्मं पद्मोत्तरं नृपः ।।१।। तस्य ज्वालाभिधा राज्ञी, बभूव परमार्हता । तस्याश्चैकः सुतो विष्णुः, सिंहस्वप्नेन सूचितः ।। २।। पद्मासद्ममहापद्म-नामान्यश्च सुतोऽजनि । तस्याश्चतुर्दशस्वप्न-सूचितो निचितो गुणेः ।।३।। कलाकलापं सकलं, कलाचार्यादधीत्य तौ । द्वितीयमद्वितीयश्रीवयस्यं प्रापतुर्वयः ।।४।। तत्र पद्यं जिगीषुत्वा-द्यौवराज्ये न्यधात्पिता । विप्रेषु प्राज्ञवाझैत्रः, क्षत्रियेषु हि शस्यते ।।५।। इतश्चोजयिनीपुर्या, श्रीवासीन्महीपतिः । मन्त्रि तु तस्य नमुचि-वितण्डापण्डितोऽभवत् ।।६।। तस्यां नगर्यामन्येद्यु-विहरन् समवासरत् । मुनिसुव्रतनाथस्य, शिष्यः सुव्रतसूरिराट् ।।७।। तं नन्तुं व्रजतो वीक्ष्य, पोरान् सोधोपरिस्थितः । अमी जनाः क्व यान्तीति, नमुचिं पृष्टवानृपः ।।८।। देवाद्योपवने केपि, श्रमणाः सन्त्युपागताः । तानन्तुं यान्ति तद्भक्ता, इत्यूचे सचिवस्ततः ।।९।। तत्र यामो वयमपी-त्युक्ते राज्ञाऽथ सोऽब्रवीत् । यद्येवं तर्हि तत्रेशैः, स्थेयं मध्यस्थवृत्तिभिः ।।१०।। पाखण्डिनोऽखिलान्वादे, स्वामिन् ! जेष्यामि तानहम् । ओमित्युक्त्वा ततो राजा, समन्त्री तद्वनं ययौ ।।११।। llell llol iell ilell slil Nell ||slil Ioll 16ll ७६२ ||Gl Poll ||oll llol alwww.jainelibrary.org Inn Education a l For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy