________________
उत्तराध्ययन
सूत्रम् ७६१
is संयतीयनाम
अष्टादशमध्ययनम्
सह राजसहस्रेण, प्राव्राजीत्तत्र तीर्थकृत् । तदा मनःपर्ययाह्व, तुर्यज्ञानमवाप च ।।१४।। 'इभारातिरिवाभीतः पृथिव्यां विहरन् विभुः । भूयोऽप्यागात्सहस्राम्र-वणं संवत्सरैत्रिभिः ।। १५ ।। तदा चाभ्युदिते भर्तुः, केवलज्ञानभास्करे । 'समे समेत्य समव-सरणं वासवा व्यधुः ।।१६।। वाण्या योजनगामिन्या, सर्वभाषानुयातया । पूर्वसिंहासने तत्रा-ऽऽसित्वा धर्म जगी जिनः ।।१७।। तं चाकर्ण्य जिनाभ्यणे, नेके पर्यव्रजन जनाः । 'त्रयस्त्रिंशद्गणधराः, स्वामिना तेषु चक्रिरे ।।१८।। श्रमणानां प्रभोः पञ्चा-शत्सहस्राणि जज्ञिरे । श्रमणीनां पुन: षष्टि-सहस्राणि महात्मनाम् ।।१९।। लक्षं चतुरशीत्या च, सहस्त्रैर्युक्तमास्तिकाः । द्वासप्ततिसहस्राग्रं, लक्षत्रयमुपासिकाः ।।२०।। अनुग्रहीतुं भविनो, भूमौ विहरतोऽर्हतः । सङ्घश्चतुर्विध इति, जज्ञे गुणमणीनिधिः ।।२१।। समभागं कुमारत्वा-दिके स्थानचतुष्टये । आयुश्चतुरशीत्यब्द-सहस्राणि प्रभोरभूत् ।। २२।। निर्वाणकालं ज्ञात्वाऽथ, गत्वा सम्मेतपर्वते । सह साधुसहस्त्रेणा-ऽनशनं विदधेऽधिपः ।।२३।। एकेन मासेन स सार्वसार्व-भौमो महानन्दपदं ततोऽगात् । निर्वाणकाले च समेत्य तस्य, सर्ववितेने महिमा सुरेशैः ।।२४।। इति श्रीअरनाथकथा ।। ४०।।
||slil || || || ||all
IIsl
IIsl Ifoll Tell
HP
सिंहः । २ सर्व । ३ त्रयविंगणधरान् तेषु चास्थापयत् प्रभुः ।। इति 'प' पुस्तके ।।
७६१
161
||6|
For Personal & Private Use Only