________________
उत्तराध्ययन
सूत्रम्
७५९
STDDDDS
पञ्चत्रिंशद्धनुस्तुङ्गः, पञ्चत्रिंशत्गुणाढ्यया । गिरा दिदेश तत्रेशो, धर्म सिंहासने स्थितः ।। १८ ।।
तं निशम्य प्रभोः पार्श्वे, प्राव्रजन् बहवो जनाः । तेषु चास्थापयत्पञ्च-त्रिंशतं 'गणिनो जिनः ।। १९ ।। षष्टिः सहस्रा व्रतिनां साध्वीनां ते सषट्शताः । एकोनाशीत्या सहस्त्रैर्युक्तं लक्षमुपासकाः ।। २० ।। एकाशीतिसहस्राग्रं, लक्षत्रयमुपासिकाः । एवं चतुर्विधस्सङ्घः, प्रभोर्विहरतोऽभवत् ।। २१ ।। (युग्मम् ) कौमारराज्यचक्रित्व चारित्रेषु समांशकम् । जीवितं पञ्चनवति - सहस्राब्दान्यभूद्विभोः ।। २२ ।।
समं सहस्रेण मुनीश्वराणां, सम्मेतशैलेऽनशनं प्रपन्नः । मासेन सोऽर्हन् शिवमाससाद, सुरेश्वरैस्तन्महिमा च चक्रे ।। २३ ।। इति श्री कुन्थुनाथकथा ।। ३९ ।।
सागरंतं चइत्ता णं, भरहं नरवरीसरो । अरोवि अरयंपत्तो पत्तो गइमणुत्तरं ।। ४० ।।
व्याख्या – व्यक्तं नवरं ‘अरयंपत्तोत्ति' रजसः कर्मणोऽभावोऽरजस्तत्प्राप्तः, प्राप्तो गतिमनुत्तराम् । तद्वृत्तलेशस्त्वेवम्जम्बूद्वीपप्राग्विदेहे, वत्साह्वविजयेऽभवत् । निःसीमविक्रमः सीमा पुर्यां धनपतिर्नृपः ।। १ ।। संवराहमुनेः पार्श्वे, प्राव्रजत् सोन्यदा मुदा । स्थानैरर्हद्भक्तिमुख्यै-रार्ज्जयज्जिननाम च ।। २।।
||७|| १ त्रिंशद्गणधरान् जिनः । इति 'घ' संज्ञक पुस्तके चतुर्थपादः ।।
Jain Education International
For Personal & Private Use Only
22222222
|| संयतीयनाम
DDDDDDDD
अष्टादशमध्ययनम्
७५९
Www.jainelibrary.org