SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७५८ Isll 6 संयतीयनाम अष्टादशमध्ययनम् liall lisil lisil llell Mell Hell sil lel ilcil सिंहावहस्य जीवोऽथ, च्युत्वा सर्वार्थसिद्धतः । कुक्षौ चतुर्दशस्वप्ना-ऽऽवेदितोऽवातरत् श्रियः ।।५।। क्रमाञ्च साऽसूत सुतं, छागावं काञ्चनच्छविम् । दिक्कुमार्यो व्यधुस्तस्य, सूतिकर्म तदाऽऽगताः ।।६।। जन्माभिषेकं मेरौ च, तस्येन्द्राः चक्रिरेऽखिलाः । तुष्टोऽन्वतिष्ठपोऽपि, पुत्रजन्ममहामहः ।।७।। गर्भस्थेऽस्मिन् कुन्थुभावं, भेजिरे निखिला द्विषः । स्वप्ने च जननी कुस्थं रत्नस्तूपं ददर्श यत् ।।८।। तत्कुन्थुरिति तस्याख्या-मुत्सवैर्निर्ममे नृपः । विश्वोत्तरगुणाधारः, क्रमात्स ववृधे विभुः ।।९।। यौवने राजकन्या राट्, समं तेनोदवाहयत् । तस्मै वितीर्य राज्यं चा-ऽन्यदा पर्यव्रजत्स्वयम् ।।१०।। श्रीकुन्थुस्वामिनः प्राज्यं, राज्यं पालयतस्ततः । चक्रमायुधशालाया-मन्येधुरुदपद्यत ।।११।। ततश्चक्रानुगः सर्व, विजिग्ये भरतं प्रभुः । चक्रिश्रियं च स्त्रीरत्न-मिवोपबुभुजे चिरम् ।।१२।। अथ लोकान्तिकैर्देवैः, स्वयम्बुद्धः स बोधितः । राज्यं पुत्राय दानं च, ददौ वार्षिकमर्थिनाम् ।।१३।। ततो नरेन्द्ररिन्द्रेश्च, कृतनिष्क्रमणोत्सवः । आरुह्य शिबिकां स्वामी, सहस्राम्रवणं गतः ।।१४।। महीपतिसहस्रेण, सह व्रतमुपाददे । मनःपर्ययसझं च, तुर्यज्ञानं तदाऽऽसदत् ।।१५।। (युग्मम्) विभु रुण्डपक्षीदा-ऽप्रमत्तो विहरन् भुवि । आगात् षोडशभिर्वषः, सहस्राम्रवणं पुनः ।।१६।। तत्र च स्वामिनाऽवाप्ते, केवले हरयोऽखिलाः । आगत्य चक्रुः समव-सरणं शरणं श्रियाम् ।।१७।। ७५८ ||ll lei llel in Economia For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy