SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ llell llell उत्तराध्ययन सूत्रम् ७५५ Holl संयतीयनाम अष्टादशमध्ययनम् ller lasil ell Woli fall Mail पूर्णेच समये पुत्रं सुषुवे सा सुलक्षणम् । स्वामिस्वप्नानुसारात्तं, चक्रे चक्रायुधाभिधम् ।। ४६७।। क्रमेण वर्द्धमानोऽथ, सोपि यौवनमासदत् । बह्वीनृपतिपुत्रीश्च, पर्यणैषीत् स्वयंवराः ।। ४६८।। नृपत्वेऽपि सहस्रेषु, शरदां पञ्चविंशतौ । गतेषु शस्त्रशालायां, चक्रं प्रादुरभूत् प्रभोः ।। ४६९।। चक्रपूजां कारयित्वा, ततस्तदनुगो विभुः । लीलया साधयामास, षटखण्डमपि भारतम् ।। ४७०।। द्वात्रिंशता सहस्रैर्भू-भुजां सेवितपत्कजः । कृतारिशान्तिः श्रीशान्ति-हस्तिनापुरमाययौ ।। ४७१।। ततो देवैदेवैश्च, स्वामिनो द्वादशाब्दिकः । चक्रे चक्रित्वाभिषेको, मोदयन् जगतीजनम् ।। ४७२।। अथान्त:पुरकान्ताव-चक्रवर्तिश्रियं प्रभुः । भुञ्जानो व्यत्यगादब्द-सहस्रान्पञ्चविंशतिम् ।। ४७३।। तीर्थं प्रवर्त्तयेत्युक्तो, लोकान्तिकसुरैरथ । निर्निदानं ददौ दान-माब्दिकं जगदीश्वरः ।। ४७४।। राज्ये चक्रायुधं न्यस्य, सर्वार्थी शिबिकां श्रितः । सुरासुरनराधीश-कृतनिष्क्रमणोत्सवः ।। ४७५।। गत्वासहस्राम्रवणे, याप्ययानादवातरत् । समं राज्ञां सहस्रेण, प्रावाजीञ्च जिनेश्वरः ।। ४७६ ।। (युग्मम्) लेभे मनःपर्ययाहू, तुर्यज्ञानं प्रभुस्तदा । विजहार च भूपीठे-ऽप्रतिबद्धः समीरवत् ।। ४७७।। वर्षान्ते च पुनः प्राप्तः, सहस्राम्रवणं विभुः । शुक्लध्यानं श्रितः प्राप, केवलज्ञानमुज्वलम् ।। ४७८।। तत आसनकम्पेन, तत्राऽऽयाताः सुरासुराः । चक्रुः समवसरणं, प्राकारत्रयमञ्जुलम् ।। ४७९।। lal ell Isl Isll Isl llsil llsil Ioll ७५५ liGll IIoll Ioll loll Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy