________________
उत्तराध्ययन
सूत्रम् ७५४
॥ संयतीयनाम
अष्टादशमध्ययनम्
Isl
| lel
||sil
fell
गर्भस्थेऽस्मिन् सुते शान्ति-रशिवानामभूद्धवि । इति क्षितिपतिः शान्ति-रिति तस्याभिषां व्यधात् ।। ४५५।। निहितं हरिणाङ्गुष्टे, पिबन् पीयूषमन्वहम् । अद्वैतरूपतेजः श्री-र्ववृधेऽथ जगत्पतिः ।। ४५६।। पश्यतोरालिङ्गतोश्च, मौलावाजिघ्रतोश्च तम् । पित्रोः सुखमभूद् ब्रह्म-मग्नयोरिव निस्तुलम् ।। ४५७।। निशम्य मन्मनालापां-स्तस्येष्टान् धुसदामपि । पितरौ पीतपीयूषा-विवात्यर्थमतुष्यताम् ।। ४५८।। भूपगेहाङ्गणं स्वामी, क्रमचङ्क्रमणः क्रमात् । अलञ्चकार चटुलै:, कल्पद्रुरिवजङ्गमः ।। ४५९।। शिशुभूतैः समं देवे-'श्चलचूलाञ्चलो विभुः । पांशुलीलां व्यधाद्रम्या, शैशवे शोभते ह्यदः ।। ४६०।। क्रमाश स्ववपुर्योगा-द्यौवनं भूषयन्विभुः । चत्वारिंशद्धनुस्तुङ्गो, विश्वं विश्वममोदयत् ! ।। ४६१।। पित्रोराज्ञेत्युपायंस्त, जिनो राजाङ्गजास्ततः । यशोमत्यादिका धन्य-मन्यास्तादृग्धवाप्तितः ।। ४६२ ।। यातेष्वब्दसहस्रेषु, जन्मतः पञ्चविंशतौ । राजा राज्ये न्यस्य शान्तिं, निजं कार्यमसाधयत् ।। ४६३।। जिनोऽपि बुभुजे भोगान्, पुरन्ध्रीभिः सहोत्तमान् । कर्मभोगफलं ह्येव-मेवापैति निकाचितम् ।। ४६४ ।। जीवो दृढरथस्याथ, सर्वार्थादन्यदा च्युतः । आगाद्यशोमतीकुक्षौ, स्वप्ने चक्रं प्रदर्शयन् ।। ४६५ ।। पृष्टस्तयाऽथ स्वप्नार्थं, जगादेति जगत्पतिः । तव देवी सुतो भावी, जङ्गमं विश्वमण्डनम् ।। ४६६ ।।
Isl
leil llall
llell
foll
16
llell 16ll Isl !el Mel licil lal foll licell lisil llel
Mell
चलोऽस्थिर पलाया मस्तकमध्यशिखाया आचलः प्रान्तभागो यस्य स तथा ।।
७५४
Pall Nell liell
foll
liell Isil
liell Jell lisil Isl Neww.jainelibrary.org
in Econ
For Personal Private Use Only