SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७५३ संयतीयनाम अष्टादशमध्ययनम् ||sil नत्वा जिनं जिनाम्बां च, ज्ञापयित्वाऽभिधां निजाम् । दत्त्वाऽवस्वापिनी देव्याः, प्रभो रूपान्तरं न्यधात् ।। ४४२।। पञ्चरूपाणि कृत्वाऽथ, तेनैकेन जिनेश्वरम् । द्वाभ्यां च चामरे ताभ्या-मेकेन छत्रमुद्वहन् ।। ४४३।। एकेन च पुरो वज्र-मुत्क्षिपन् मघवा क्षणात् । जगाम मेरुमौलिस्था-ऽतिपाण्डुकम्बलां शिलाम् ।। ४४४ ।। (युग्मम्) अङ्कन्यस्तजिनस्तत्रा-ऽध्यास्त सिंहासनं हरिः । अन्येऽपि वासवाः सर्वे, तत्रैयुश्चलितासनाः ।। ४४५।। ततस्तीर्थोदकेस्तीर्थ-करं प्रागच्युताधिपः । अभ्यषिञ्चत्तदनु च, क्रमादन्येऽपि वासवः ।। ४४६।। अथेशानप्रभोरङ्के, जिनं विन्यस्य वज्रभृत् । प्रभोश्चतुर्ता पार्श्वेषु, विचक्रे चतुरो वृषान् ।। ४४७।। तद्विषाणोद्गतीरैः, स्त्रपयामास स प्रभुम् । गन्धमाल्यविभूषाभिः, पूजयित्वाऽस्तवीच तम् ।। ४४८।। अथादाय जिनं शक्रो-ऽचिरादेव्यन्तिकेऽमुचत् । द्रागवस्वापिनीमर्ह-त्प्रतिरूपं जहार च ।। ४४९।। विनोदाय विभोरूङ्घ, न्यस्य श्रीदामगण्डकम् । उच्छीर्षके न्यधाद्वज्री, क्षौम कुण्डलयामले ।। ४५०।। जिने जिनजनन्यां च, यो दुर्ध्यास्यति दुर्मतिः । तन्मौलि सप्तधा भावी, आर्जकस्येव मञ्जरी ! ।। ४५१।। इत्युद्धोष्य सुरेरिन्द्रः, स्वर्णरत्नादिवर्षणम् । श्रीदेन कारयित्वा च, द्वीपे नन्दीश्वरे ययौ ।। ४५२।। (युग्मम्) तत्र शाश्वतचैत्येषु, शक्रोऽन्येऽपि च वासवाः । अष्टाह्निकोत्सवं कृत्वा, स्थानं निजनिजं ययुः ।। ४५३।। वर्धापितोथ दासीभि-भूपतिः पुत्रजन्मना । ताभ्यो दत्त्वा भूरि दानं, प्राज्यं चक्रे महोत्सवम् ।। ४५४ ।। ७५३ oll Isl Isl For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy