SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ || 161 उत्तराध्ययन सूत्रम् ७५१ llell Mell संयतीयनाम अष्टादशमध्ययनम् isil ell 11 देहि प्रियं वचः सौम्यदृष्ट्या वीक्षस्व नः प्रभो ! । कण्ठे निधेहि च भुजौ, तमित्यूचुश्च काश्चन ।। ४१८ ।। क्षोभायेति कृतास्ताभिः, कुचेष्टा निखिलां निशाम् । प्रत्युतादीपयत् ध्यानं, तस्याऽऽप इव वाडवम् ।। ४१९ ।। मेरो वात्या इवोर्वीशे, मोघास्ता विकृताः स्त्रियः । ततः संहत्य ते देव्यो, नत्वा तं दिवमीयतुः ।। ४२०।। निशावृत्तेन तेनाथ, पृथ्वीनाथो विरक्तधीः । प्रतिमां पारयित्वागा-त्स्वधामाऽप्रतिमक्षमः ।।४२१।। तत्राथ समवासार्षी-जिनो घनरथोऽन्यदा । तं चायातं निशम्यागा-त्सानुजो वन्दितुं नृपः ।। ४२२।। वैराग्यमातरं श्रुत्वा, देशनां स गृहं गतः । राज्यमेतद्गृहाणेति राजाऽवरजमब्रवीत् ।। ४२३ ।। त्वामनुप्रव्रजिष्यामि, कृतं राज्येन तन्मम । तेनेत्युक्तोऽथ पृथ्वीशो, राज्येऽस्थापयदात्मजम् ।। ४२४ ।। साकं दृढरथेनाथ, सुतानां सप्तभिः शतैः । राज्ञां चतुःसहस्या च, गत्वा तीर्थङ्करान्तिकम् ।। ४२५ ।। स्वीचकार परिव्रज्यां, श्रीमेघरथपार्थिवः । अधीत्यैकादशाङ्गानि, विजहार च भूतले ।।४२६।। (युग्मम्) विंशत्या स्थानकैरर्ह-त्सिद्धसेवादिभिः शुभैः । तीर्थकृन्नाम सत्कर्म, सोऽर्जयामास सार्जव: ।। ४२७ ।। सोऽथ कृत्वा साधुसिंहः, सिंहनिष्क्रीडितं तपः । पूर्वलक्षं यावदुग्रं, पालयित्वा च संयमम् ।। ४२८।। आरुह्याम्बरतिलके, गिरावनशनं श्रितः । आयुःक्षयेण सर्वार्थ-सिद्धे जज्ञे सुधाशनः ।। ४२९ ।। ७५१ ||sil in Education For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy