SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७४७ संयतीयनाम अष्टादशमध्ययनम् शरणं मार्गयन् सोऽथ, 'शकुन्तो मर्त्यभाषया । मा भैषीरिति राज्ञोक्त-स्तदङ्के स्थितवान् सुखम् ।।३७०।। मम भक्षमिदं देव !, विमुञ्चेत्युचकैर्वदन् । तमन्वागादथ श्येनो, गरुत्मानिव भोगिनम् ।।३७१।। नृपोऽथेत्यब्रवीदेनं, श्येन ! दास्ये न ते श्रितम् । प्राणान्तेऽपि हि रक्षन्ति, क्षत्रियाः शरणागतम् ।।३७२।। अन्यञ्च युज्यते नैव, भवतोऽपि विवेकिनः । अपहृत्य परप्राणा-नेवं स्वप्राणपोषणम् ।।३७३।। स्वजीवितं यथेष्टं ते, तथान्यस्यापि तत्प्रियम् । तद्रक्षसि यथात्मानं, तथान्यमपि रक्ष भोः ! ।।३७४।। भुक्तेनाप्यमुना भावि, साहित्यं क्षणमेव ते । सर्वस्याप्यायुषो नाशो, भविताऽस्य तु पक्षिणः ।। ३७५ ।। आहारेणापरेणापि, क्षुद्यथा क्षीयते क्षणात् । प्राणिहिंसोत्थनरक-व्यथा तु न चिरादपि ।।३७६।। तद्विमुञ्च प्राणिहिंसा, धर्ममाश्रय सन्मते ! । अत्रामुत्र च येन त्वं, लभसे सुखमुत्तमम् ।। ३७७।। ततो नरेश्वरं श्येनः, प्रोचे मनुजभाषया । मत्तो भीतः कपोतोऽयं, प्रभो ! त्वां शरणं श्रितः ।। ३७८ ।। क्षुत्पीडापीडितोऽहं तु, ब्रूहि कं शरणं श्रये ? । तदेनं रक्षसि यथा, तथा त्वं रक्ष मामपि ! ।। ३७९।। धर्माधर्मविचारोऽपि, सति स्वास्थ्येऽङ्गिनां भवेत् । बुभुक्षितो हि किं पापं, न करोतीति न श्रुतम् ? ।।३८०।। न चान्यैरपि भोज्यमें, तुष्टिर्भवति भूपते ! । सद्यो हतप्राणिपला-स्वादनैकरतो ह्यहम् ।।३८१।। isi || lel Gl lloll. पक्षी ।। २. तिः lIsll llol । ७४७ Isl Isl JanEducational For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy