SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७४५ Holl संयतीयनाम अष्टादशमध्ययनम् सहस्रायुधराजोऽपि राज्ये न्यस्यान्यदा सुतम् । गणाधीशस्य पिहिता-श्रवस्यान्तेऽग्रहीद् व्रतम् ।।३४५।। स क्रमात् श्रुतपारीणो, विहरन् पृथिवीतले । समगंस्तान्यदा वज्रा-युधराजर्षिणा समम् ।। ३४६।। ततश्च तो पितापुत्री, स्वाध्यायध्यानतत्परौ । सुचिरं रुचिरस्वान्ती, सममेव विजहतुः ।। ३४७।। अधिरुह्याऽन्यदा शैल-मीषत्प्राग्भारसज्ञकम् । पादपोपगमं नामा-ऽनशनं तो वितेनतुः ।।३४८।। पूर्णे च जीविते पञ्च-विंशत्यर्णवजीवितौ । ग्रैवेयके तृतीये ता-वभूतां भासुरौ सुरौ ।। ३४९।। इतश्च जम्बूद्वीपे प्राग-विदेहेषु महद्धिका । विजये पुष्कलावत्या-मस्ति पू: पुण्डरीकिणी ।।३५०।। प्रतीपभूपतेजोग्नि-शमनैकघनाघन: । राजा घनरथस्तस्या-मभूदद्भुतविक्रमः ।। ३५१।। गङ्गागौर्याविवेशस्य, तस्याभूतामुभे प्रिये । तत्रादिमा प्रीतिमती, द्वितीया तु मनोरमा ।। ३५२।। जीवो वज्रायुधस्याथ, च्युत्वा ग्रैवेयकात्ततः । देव्याः प्रीतिमतीनाम्नया:, कुक्षो समवतीर्णवान् ।।३५३।। प्रविशन्तं तदा वक्त्रे, गर्जन्तं विद्युदञ्चितम् । वर्षन्तममृतासारं, स्वप्ने मेघं ददर्श सा ।।३५४।। प्रातः स्वप्नार्थमुर्बीश-स्तया पृष्टोऽब्रवीदिदम् । सुतस्ते भविता मेघ, इव सन्तापहद्धवः ।।३५५।। सहस्रायुधजीवोऽपि, ततो ग्रैवेयकाच्युतः । देव्या मनोरमाह्वाया, उदरे समवातरत् ।। ३५६ ।। सापि स्वप्ने रथं रम्य, प्रेक्ष्य पत्ये न्यवेदयत् । सोऽप्युवाच प्रिये ! भावी, सुतस्तव महारथः ।।३५७।। ७४५ Mail Mall liall lifall Poll Hell ational in Education n For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy