SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७४४ संयतीयनाम अष्टादशमध्ययनम् Iol Gll प्रसीद बोधिरत्नं द्राग, देहि मिथ्यामतेर्मम । न हीर्घ्ययाऽपि विहितं, दर्शनं विफलं सताम् ।।३३२।। वज्रायुधस्ततस्तस्मै, सम्यक् सम्यक्त्वमादिशत् । निःस्पृहाय ददौ दिव्या, भूषास्तस्मै सुरोऽपि सः ।। ३३३।। सभामीशाननाथस्य, गत्वा चैवमुवाच सः । वज्रायुधस्य सम्यक्त्वं, स्थानेऽश्लाघि त्वया प्रभो ! ।। ३३४ ।। अथ लोकान्तिकैर्देवै-रुक्तः क्षेमङ्करः प्रभुः । अर्थिभ्यो वार्षिकं दानं, ददौ राज्यं च सूनवे ।।३३५ ।। वज्रायधेन देवेश्व, कृतनिष्क्रमणोत्सवः । प्रव्रज्य केवलज्ञानं, क्रमेण प्राप स प्रभुः ।। ३३६।। श्रुत्वा तद्देशनां वज्रा-युधस्य गृहमीयुषः । उत्पत्तिं चक्ररत्नस्या-ऽभ्यधादायुधरक्षकः ।।३३७।। अन्यान्यपि हि रत्नानि, तदा तस्योपपेदिरे । ततः स चक्रे चक्रस्य, चक्री पूजां महीयसीम् ।।३३८।। चक्ररत्नानुग: सोऽथ, विजयं मङ्गलावतीम् । साधयामास षटखण्ड-मखण्डाज्ञः शसास च ।। ३३९।। क्षेमङ्करजिनस्तत्र, समवासरदन्यदा । चक्रिणेऽर्हन्तमायात-मूचुश्च वनपालकाः ।।३४०।। सार्द्धद्वादशदीनार-कोटीस्तेभ्यो वितीर्य सः । गत्वा नत्वा च सर्वज्ञ-मश्रौषीद्धर्मदेशनाम् ।।३४१।। ततो वैराग्यमासाद्य, सद्यः सद्यगतो नृपः । निजे न्यवीविशद्राज्ये, सहस्रायुधमादरात् ।।३४२।। चतुभिर्निजराज्ञीनां, सहस्र भुजां तथा । सप्तभिश्चात्मजशतैः, सहितो महितो जनैः ।। ३४३।। क्षेमङ्करप्रभोः पाश्चे, गत्वा स व्रतमाददे । तप्यमानस्तपस्तीव्र, विजहार च भूतले ।।३४४ ।। (युग्मम्) lll lol lol IIslil ilel Mell 16 ७४४ Join Education Interior For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy