________________
उत्तराध्ययन
सूत्रम् ७४३
ilsil
lell
New
Is संयतीयनाम
अष्टादश|| मध्ययनम् ||oll IIGI
Isl
||Gl
191
IIsl
llel llel
lei
तदा च सुखसुप्ता सा, महास्वप्नांश्चतुर्दश । वज्रं पञ्चदशं प्रेक्ष्य, प्रबुद्धा भूभुजेऽभ्यधात् ।। ३१९।। सोऽपि स्माह सुतो भावी, चक्रवर्ती तव प्रिये ! । तनिशम्य दधौ गर्भ, राज्ञी मुदितमानसा ।।३२०।। क्रमाश्च सुषुवे पुत्रं, जगत्रयमनोहरम् । स्वप्नानुसारात्तं भूपो, व्यधाद्वज्रायुधाऽभिधम् ।। ३२१।। स क्रमाद्यौवनं प्राप्तः, प्रियमित्रं मनोभुवः । लक्ष्मीवतीं नृपसुता-मुदुवाह महामहः ।।३२२।। जीवोऽथानन्तवीर्यस्या-ऽच्युतस्वर्गात्परिच्युतः । कुक्षौ लक्ष्मीवतीदेव्याः, समवातरदन्यदा ।। ३२३।। समयेऽजीजनत्पुत्रं, साऽपि लक्षणलक्षितम् । सहस्रायुध इत्याख्या, चक्रे तस्योत्सवैः पिता ।।३२४।। सोऽपि क्रमावर्द्धमानः, स्वीकृत्य सकला: कलाः । प्रपेदे यौवनं लीला-वनं मदनभूभृतः ।। ३२५ ।। सुतयुक्तेऽन्यदा क्षेम-ङ्करराजे सभां श्रिते । वज्रायुधस्य सम्यक्त्व-मीशानेन्द्रोऽत्यवर्णयत् ।। ३२६ ।। अश्रद्दधानस्तचित्र-चूलो मिथ्यामतिः सुरः । विवादं कर्तुमागात्तां, सभां नास्तिकतां श्रितः ।। ३२७।। पुण्यपापप्रेत्यभावा-त्मादि नास्तीति वादिनम् । वज्रायुधोऽवधिज्ञानी, निजगादेति तं मुदा ।। ३२८ ।। देव ! त्वमेवावधिना, पश्य प्राग्भवमात्मनः । धर्मकर्म च तत्रत्यं, सम्पदोऽस्या निबन्धनम् ।। ३२९ ।। पुण्ये प्राच्यभवे चैवं, सिद्धे जीवोऽपि विद्यते । अभाव: पुण्यपापादे-स्तत्कथं कथ्यते त्वया ? ।। ३३०।। उक्तो वज्रायुधेनेति, चित्रचूलसुरोऽब्रवीत् । दुर्बोधोऽपि त्वया साधु, सुबुद्धे बोधितोऽस्म्यहम् ।। ३३१।।
lioll Moll
||61 ||sil ||61 ||61 ||oll
litell
ilsil
llsil
llll lloll llell lell 16ll 16
Ill
lol
Mel
|| isl ||
||७||
७४३
Mell
NS
116 16ll
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org